मध्यप्रदेश-विधानसभायाः वर्षाकालीन-सत्रे समान-नागरिक-संहिता-विधेयकः प्रस्तूयते - मोहनयादवः
भोपालनगरम्, १७ जूनमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अवदत् यत् विधानसभायाः अग्रिम-वर्षाकालीन-सत्रे समान-नागरिक-संहिता इति प्रस्तावः प्रस्तुतः भविष्यति, तथा सः विश्वासं व्यक्तवान् यत् भगवतः महाकालस्य कृपया एतत् विधेयकं तस्मिन् एव
मप्र विधानसभा में यूसीसी को लेकर मीडिया से बात करते हुए मुख्यमंत्री


भोपालनगरम्, १७ जूनमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अवदत् यत् विधानसभायाः अग्रिम-वर्षाकालीन-सत्रे समान-नागरिक-संहिता इति प्रस्तावः प्रस्तुतः भविष्यति, तथा सः विश्वासं व्यक्तवान् यत् भगवतः महाकालस्य कृपया एतत् विधेयकं तस्मिन् एव सत्रे पारितं भविष्यति।

मुख्यमन्त्री विधानसभा-परिसरे पूर्वमुख्यमन्त्री कैलाशनाथ-काटजूमहोदयस्य जयंती-अवसरे आयोजित-श्रद्धाञ्जलि-समारोहानन्तरं सञ्चारमाध्यमैः सह संवादं कुर्वन् उक्तवान् यत् अग्रिम-सत्रे सर्वकार: बहून् महत्त्वपूर्णान् समसामयिक-विषयान् प्रस्तोष्यति।

तेन उक्तं यत् देशे समान-विधिक-व्यवस्थायाः विचारः सामाजिक-समानतायै उपयुक्तः अस्ति, तस्मिन् किञ्चिदपि दोषः नास्ति। उत्तराखण्डे, गुजरात-राज्ये तथा असम-राज्ये च एषः विधिः पूर्वमेव प्रवर्तितः अस्ति। मध्यप्रदेशः अपि तस्मिन् दिशि शीघ्रं अग्रे गच्छति।

मुख्यमन्त्री अवदत् यत् जनजातीय-समुदायः अस्मिन् व्यवस्थायां पृथक् विचारितः भविष्यति, तथा एक-उच्चस्तरीया समिति मत-संग्रहं कुर्वती अस्ति। यदि भगवतः महाकालस्य इच्छया भवति, तर्हि अस्मिन्नेव सत्रे विधेयकं पारितं भविष्यति इति सः उक्तवान्।

मध्यप्रदेश-विधानसभायाः वर्षाऋतु-सत्रं २० जुलाईमासतः आरभ्य २४ जुलाईमासपर्यन्तं पञ्चदिवसीयं भविष्यति। राज्यसर्वकारेण उच्चतम-न्यायालयस्य पूर्व-न्यायाधीशा रञ्जना-प्रकाश-देसाई इत्यस्याः अध्यक्षतायां एकः उच्चस्तरीयः समितिः गठिता अस्ति, या यू.सी.सी.-विषये प्रस्तावित-प्रारूपं निर्माय सर्वकाराय समर्पयति।

समितिः राज्यस्य विभिन्नेषु जनपदेषु भ्रमणं कृत्वा जनमतं सङ्गृह्णाति तथा अन्तर्जाल-पटल-मार्गेण अपि नागरिकाणां विचारान् प्राप्नोति। प्राप्त-विचाराणाम् आधारेण अन्तिम-प्रारूपः निर्मीयते।

विपक्षे कांग्रेस-विधायकः आरिफ-मसूदः अस्य प्रस्तावस्य विरोधं कृतवान्, उक्तवान् च यत् यदि जनजातीय-समुदायः पृथक् क्रियते तर्हि एषा “समान-नागरिक-संहिता” इति न स्यात् इति।

Hindusthan Samachar / Divya Ranjan