राष्ट्रपतिः १८ जूनमासतः मध्यप्रदेशस्य पञ्चदिवसीय-प्रवासे भविष्यति
भोपालनगरम्, १७ जूनमासः (हि.स.)। भारतगणराज्यस्य राष्ट्रपतिः द्रौपदीमुर्मू १८ जूनमासे मध्यप्रदेशस्य पञ्चदिवसीय-प्रवासाय आगमिष्यति। सा २२ जूनमासपर्यन्तं बैतूल-नगरे, ओंकारेश्वरे, जबलपुर-नगरे च विविधेषु कार्यक्रमेषु सहभागिनी भविष्यति। तथा च श्योपुर-जनपद
राष्ट्रपति द्रौपदी मुर्मू (फाइल फोटो)


भोपालनगरम्, १७ जूनमासः (हि.स.)। भारतगणराज्यस्य राष्ट्रपतिः द्रौपदीमुर्मू १८ जूनमासे मध्यप्रदेशस्य पञ्चदिवसीय-प्रवासाय आगमिष्यति। सा २२ जूनमासपर्यन्तं बैतूल-नगरे, ओंकारेश्वरे, जबलपुर-नगरे च विविधेषु कार्यक्रमेषु सहभागिनी भविष्यति। तथा च श्योपुर-जनपदस्य प्रसिद्धस्य कूनो-राष्ट्रीय-उद्यानस्य भ्रमणमपि करिष्यति। अस्याः प्रस्तावित-बैतूल-प्रवासस्य सज्जतासम्बन्धेन अद्य परीक्षण-अवतरणं तथा वाहन-श्रेणी-अभ्यासः भविष्यति।

जिल्ला-प्रशासनस्य अनुसारं राष्ट्रपतिः द्रौपदीमुर्मू १८ जूनमासे प्रातः ९:२५ वादने इन्दौर-विमानस्थानकम् आगमिष्यति। ततः सा हेलिकॉप्टर-यानद्वारा बैतूल-नगराय प्रस्थास्यति। प्रातः ११:१० वादने सा बैतूल-नगरे ब्रह्मकुमारी-संस्थायाः कार्यक्रमे सहभागिनी भविष्यति। ततः परं मध्याह्ने १२:२० वादने बैतूलतः ओंकारेश्वराय प्रस्थास्यति तथा मध्याह्ने १:४० वादने ओंकारेश्वरम् आगमिष्यति। सायं ६:२० वादने सा ओंकारेश्वर-मन्दिरे दर्शनं करिष्यति, आरार्तिक्याम् अपि सहभागिनी भविष्यति। रात्रौ सा ओंकारेश्वरस्थे एनएचडीसी-अतिथिगृहे विश्रामं करिष्यति।

निर्धारित-कार्यक्रमानुसारं १९ जूनमासे प्रातः ९:५० वादने ओंकारेश्वरे अन्ताराष्ट्रिय-सिकल-सेल-अनीमिया-दिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे सहभागिनी भविष्यति। ततः प्रातः ११:३० वादने ओंकारेश्वरात् प्रस्थाय मध्याह्ने १२:१५ वादने इन्दौर-विमानस्थानकम् आगमिष्यति। अनन्तरं मध्याह्ने १२:२५ वादने इन्दौर-विमानस्थानकात् पश्चिमबङ्गस्य कलाईकुण्ड-विमानस्थानकाय प्रस्थास्यति।

२० जूनमासे सायं ६:१० वादने राष्ट्रपतिः वायुयानद्वारा जबलपुर-विमानस्थानकम् आगमिष्यति। ततः सा सर्किट-हाउस प्रति गमिष्यति तथा तत्रैव रात्रौ विश्रामं करिष्यति। अनन्तरदिने, अर्थात् २१ जूनमासे, प्रातः ७:२० वादने जबलपुरे आयोजिते अन्ताराष्ट्रिय-योग-दिवस-कार्यक्रमे सहभागिनी भविष्यति। अस्य कार्यक्रमस्य अनन्तरं मध्याह्ने ११:४० वादने जबलपुरस्थे रानी-दुर्गावती-विश्वविद्यालयस्य ३६तमे दीक्षान्त-समारोहे मुख्यातिथिरूपेण उपस्थितिं दास्यति।

ततः परं मध्याह्ने १:२० वादने जबलपुर-विमानस्थानकात् ग्वालियराय प्रस्थास्यति तथा २:२० वादने ग्वालियरम् आगमिष्यति। ततः हेलिकॉप्टर-यानद्वारा कूनो-राष्ट्रीय-उद्यानाय गमिष्यति। सा मध्याह्ने ३:३५ वादने कूनो-अतिथिगृहम् आगमिष्यति तथा तत्रैव रात्रौ विश्रामं करिष्यति।

२२ जूनमासे प्रातः ६:३० वादने राष्ट्रपतिः कूनो-राष्ट्रीय-उद्यानस्य भ्रमणं करिष्यति। ततः प्रातः १०:२० वादने कूनो-हेलिपदात् प्रस्थाय ११:०५ वादने ग्वालियर-विमानस्थानकम् आगमिष्यति। अनन्तरं प्रातः ११:१५ वादने ग्वालियर-विमानस्थानकात् नवदेहल्यै प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan