ओडिशाराज्ये राष्ट्रपति-मुर्मू-महोदयायाः तथा प्रधानमन्त्री मोदी-महोदयस्य च प्रवासकाले पहाडपुरग्रामे माध्यमप्रतिनिधीनां प्रवेशे प्रतिबन्धः
भुवनेश्वरम्, जूनमासः १७ दिनाङ्कः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मू-महोदयायाः तथा प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ओडिशाराज्यस्य मयूरभञ्जजनपदस्य प्रस्तावितप्रवासं दृष्ट्वा जनपदप्रशासनेन जूनमासस्य २० दिनाङ्के पहाडपुरग्रामे माध्यमप्रतिनिधीनां प्रवे
ओडिशा शासन


भुवनेश्वरम्, जूनमासः १७ दिनाङ्कः (हि.स.)। राष्ट्रपति-द्रौपदीमुर्मू-महोदयायाः तथा प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ओडिशाराज्यस्य मयूरभञ्जजनपदस्य प्रस्तावितप्रवासं दृष्ट्वा जनपदप्रशासनेन जूनमासस्य २० दिनाङ्के पहाडपुरग्रामे माध्यमप्रतिनिधीनां प्रवेशः पूर्णतया निषिद्धः कृतः। उच्चस्तरीयसुरक्षा-व्यवस्थायाः आवश्यकतां निर्दिश्य प्रशासनस्य एषः निर्णयः स्वीकृतः।

मयूरभञ्जस्य जनपदीय-सूचना-जनसम्पर्क-अधिकारिणा निर्गते आधिकारिकपत्रे मुद्रितमाध्यमानां तथा विद्युन्माध्यमानां प्रतिनिधिभ्यः जूनमासस्य २० दिनाङ्के पहाडपुरग्रामं न गन्तव्यमिति निर्देशः प्रदत्तः। एषः निर्णयः जनपदगुप्तचरविभागस्य तथा आरक्षक-अधीक्षकस्य अनुशंसायाः आधारेण स्वीकृतः, येन अति-महत्त्वपूर्ण-व्यक्तीनां कार्यक्रमस्य शान्तिपूर्णं सुरक्षितं च सञ्चालनं सुनिश्चितं भवेत्।

जनपदप्रशासनेन सर्वेभ्यः माध्यम-संस्थाभ्यः सुरक्षानियमानां पालनपूर्वकं सहयोगस्य आह्वानं कृतम्।

निर्धारितकार्यक्रमानुसारं राष्ट्रपतिः द्रौपदी-मुर्मू-महोदया जूनमासस्य १९ दिनाङ्के मयूरभञ्जं प्राप्स्यति, यदा प्रधानमन्त्री नरेन्द्रमोदी-महोदयः जूनमासस्य २० दिनाङ्के जनपदस्य प्रवासं करिष्यति। उभौ शीर्षनेतारौ स्वकार्यक्रमस्य अन्तर्गतं जूनमासस्य २० दिनाङ्के पहाडपुरग्रामस्य भ्रमणं कर्तुं शक्नुतः।

अस्मिन् प्रवासे रायरङ्गपुरनगरे ओडिशाराज्ये भाजपासर्वकारस्य द्वितीयकार्यकालस्य द्वितीय-वार्षिकोत्सवस्य उपलक्ष्ये विशालजनसभायाः आयोजनम् अपि भविष्यति। एतदर्थं समग्रे जनपदे व्यापकाः सुरक्षाव्यवस्थाः क्रियमाणाः सन्ति।

Hindusthan Samachar / Divya Ranjan