Enter your Email Address to subscribe to our newsletters

नवदेहली, 17 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् स्नेहपूर्णं सम्मानं स्वीकृतिश्च मनुष्यं मूल्यवानं गौरवान्वितं सन्तुष्टं च अनुभावयतः। तेन उक्तं यत् एषा मान्यता न केवलम् आत्मविश्वासं वर्धयति अपि तु मनुष्ये नूतनाम् ऊर्जाम् उत्साहं च सञ्चारयति।
प्रधानमन्त्री बुधवासरे सामाजिकपटले एक्स इत्यत्र एतत् संस्कृतसुभाषितं सहकृतवान्
“त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् यदा वयं कस्यचित् व्यक्तेः सम्मानपूर्वकं स्वीकृतिं प्राप्नुमः तदा वयं महान् गौरवं सौभाग्यं च अनुभवामः। एतत् पूर्णतया सत्यम् अस्ति यत् महापुरुषैः प्रदत्तं सम्मानं मनुष्यस्य अन्तःस्थितेषु स्वगुणेषु आत्मविश्वासं गाढतया जागरयति।
प्रधानमन्त्री उक्तवान् यत् स्नेहपूर्णं सम्मानं स्वीकृतिश्च मनुष्याय गौरवस्य सन्तोषस्य च अनुभूतिं प्रदत्तः। अनेन यत्र आत्मविश्वासः वर्धते तत्रैव नूतना ऊर्जा उत्साहश्च अपि सञ्चरति।
---------------
Hindusthan Samachar / Dheeraj Maithani