Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, १७ जूनमासः (हि.स.)। बुधवासरे प्रधानमन्त्रिणः स्वनिधि-योजनया लघु-व्यापारिणां स्वावलम्बनाय दिशि पुनरपि एकं सकारात्मकम् उदाहरणं समुपस्थितम्। केन्द्र-सर्वकारस्य अस्याः महत्त्वाकाङ्क्षिण्याः योजनायाः माध्यमेन बलरामपुरस्य ग्रामे जतरो-निवासी उमाचन्द-सिंहाय स्वव्यवसायस्य विस्ताराय आर्थिक-सहायता प्राप्ता, यस्याः कारणात् तस्य व्यापारस्य नूतना गतिः लभ्येत इति अपेक्षा वर्तते।
उमाचन्द-सिंहः दीर्घकालात् फल-विक्रयस्य कार्यं कुर्वन् स्वपरिवारस्य भरण-पोषणं करोति स्म। सीमित-आयस्य तथा पूँजी-अभावस्य कारणात् तस्य व्यवसाय-विस्तारे कठिनता आसीत्। ग्राहकाणां आवश्यकतानुसारं पर्याप्त-सामग्रीं प्रदातुं न शक्नुवन् तस्य व्यापारस्य सम्भावनाः अपि प्रभाविताः अभवन्।
अस्मिन् एव काले तस्मै प्रधानमन्त्रि-स्वनिधि-योजनायाः सूचना प्राप्ता। पीएम-स्वनिधि-शिविरे आवेदनं कृत्वा पात्रतायाः आधारेण तस्मै २५ सहस्र-रूप्यकाणां ऋणं स्वीकृतम्, यस्य धनाहरणपत्रं तस्मै प्रदत्तम्। एतया राश्या सः इदानीं स्वापणानाय अधिकपरिमाणेन फलानि अन्या: च आवश्यक-सामग्र्य: क्रेतुं शक्नोति, येन व्यापारः सुदृढः भविष्यति।
उमाचन्द-सिंहः उक्तवान् यत् अस्मात् पूर्वमपि तस्मै योजनायाः अन्तर्गतं १० सहस्र-रूप्यकाणां ऋण-सहायता प्राप्ता आसीत्, यां सः सफलतया उपयुक्तवान्। इदानीं द्वितीयवारं प्राप्तया सहायतया तस्य व्यवसायः अधिक-सम्यक् रूपेण सञ्चालितुं शक्नोति तथा आयवृद्धिः अपि सम्भाव्यते।
सः प्रधानमन्त्रि-स्वनिधि-योजनां लघु-व्यापारिणां कृते अतीव उपयोगिनीं उक्त्वा केन्द्र-राज्य-सर्वकारयोः तथा जनपद-प्रशासनस्य प्रति कृतज्ञतां प्रकटितवान्। तस्य मतं यत् एषा योजना तस्मै स्वव्यवसायं सुदृढीकर्तुं स्वावलम्बी भवितुं च अवसरं प्रदत्तवती।
जनपदे उपायुक्त-चन्दन-सञ्जय-त्रिपाठी-महोदयस्य निर्देशनानुसारं निर्धारित-कार्यक्रमानुसारं विशेष-शिविराणां आयोजनं क्रियते। एतेषु शिविरेषु पात्र-पथ-विक्रेतृभ्यः लघु-व्यापारिभ्यः च पीएम-स्वनिधि-समेताः विभिन्न-जनकल्याणकारी-योजनानां लाभः दातुं प्रयत्नः क्रियते। शिविरेषु ऋण-प्रकरणानां पञ्जीकरणं, नवीन-आवेदनम्, ऋण-स्वीकृति:, ऋण-वितरणं तथा डिजिटल-भुगतान-संबद्धा सूचना अपि दीयते।
जनपद-प्रशासनं पथ-विक्रेतृभ्यः लघु-व्यापारिभ्यः च आह्वानं करोति यत् ते शिविरेषु गत्वा प्रधानमन्त्री-स्वनिधि-योजनां तथा अन्य-जनकल्याणकारी-योजनानां लाभं प्राप्य स्वव्यवसायं वर्धयन्तु।
Hindusthan Samachar / Divya Ranjan