पथ विक्रेतॄणां कृते व्यवसाय हेतवे आर्थिक सहायताम् उपलब्धुं सशक्तं माध्यमोऽस्ति प्रधानमंत्रिस्वनिधियोजना - महापौरः
कोरबा, 17 जूनमासः (हि.स.)। महापौरा श्रीमती संजूदेवी राजपूता अद्य उक्तवती यत् प्रधानमन्त्रि स्वनिधियोजना मार्गे पादपथे च तथा गलीवीथीषु यात्रां कृत्वा व्यवसायं कुर्वतां नगरीयपथविक्रेतॄणां लघुव्यवसायिनां च कृते तेषां व्यवसायार्थं सुगमरूपेण आर्थिकसहाय
पथ विक्रेताओं को व्यवसाय हेतु आर्थिक सहायता उपलब्ध कराने का सशक्त माध्यम है पीएम स्वनिधि योजना - महापौर


कोरबा, 17 जूनमासः (हि.स.)।

महापौरा श्रीमती संजूदेवी राजपूता अद्य उक्तवती यत् प्रधानमन्त्रि स्वनिधियोजना मार्गे पादपथे च तथा गलीवीथीषु यात्रां कृत्वा व्यवसायं कुर्वतां नगरीयपथविक्रेतॄणां लघुव्यवसायिनां च कृते तेषां व्यवसायार्थं सुगमरूपेण आर्थिकसहायतां प्रदातुं सशक्तं माध्यमम् अस्ति। तया उक्तं यत् नगरपालिकानिगम कोरबा द्वारा अपि मार्गपार्श्वे व्यवसायं कुर्वद्भ्यः पथविक्रेतृभ्यः तेषां व्यवसायार्थं सुविधायुक्तानि स्थायिस्थलानि प्रदातुं वेंडिङ्गजोनाः निर्मिताः सन्ति।

एतानि वचनानि महापौरा श्रीमती संजूदेवी राजपूता अद्य पीएम स्वनिधिमहोत्सवस्य लोककल्याणमेलायाश्च आयोजनस्य समये उक्तवती।

उल्लेखनीयम् अस्ति यत् छत्तीसगढसर्वकारस्य नगरीयप्रशासनविकासविभागात् प्राप्तनिर्देशानाम् अनुरूपं जिलाप्रशासनेन नगरपालिकानिगम कोरबा द्वारा च पीएम स्वनिधिमहोत्सवस्य आयोजनम् अस्मिन् सम्पूर्णे जूनमासे क्रियते तथा निर्धारितकार्यक्रमानुसारं जोनकार्यालयेषु शिविराणि आयोजितानि भवन्ति। अस्यां श्रृङ्खलायाम् अद्य निगमस्य पण्डितजवाहरलालनेहरूसभागारे पीएम स्वनिधिमहोत्सवस्य लोककल्याणमेलायाश्च वृहदायोजनम् अभवत्।

महापौरा श्रीमती संजूदेवी राजपूता आयोजनम् सम्बोधयन्ती अग्रे उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदी महत्त्वपूर्णाः बहवः जनकल्याणकारीयोजनाः प्रवर्तितवान्, तासु एव प्रधानमन्त्रि स्वनिधियोजना अपि एका महत्त्वपूर्णा योजना अस्ति। एषा योजना नगरीयपथविक्रेतॄणां कृते वरदानरूपेण सिद्धा जाता अस्ति। अस्याः योजनायाः अन्तर्गतं एतेभ्यः लघुव्यवसायिभ्यः अत्यल्पव्याजेन सुलभतया ऋणं प्रदीयते।

तया कार्यक्रमे उपस्थितान् स्ट्रीटवेंडर्स लघुव्यवसायिनः सम्बोध्य अग्रे उक्तं यत् कोरबानगरे एव बहूनि तादृशानि उदाहरणानि सन्ति यत्र पूर्वं लघुव्यवसायं कुर्वन्तः जनाः अद्य स्वपरिश्रमेण बृहतः प्रतिष्ठिताश्च व्यवसायिनः अभवन्। अतः यूयं सर्वे अपि प्रधानमन्त्रिणः अस्याः योजनायाः लाभं गृह्णीत तथा स्वव्यवसायं बहुदूरं नयत, इति मम शुभकामना अस्ति।

अस्मिन् अवसरे निगमस्य सभापतिः नूतनसिंहठाकुरः स्वसम्बोधने उक्तवान् यत् अहं वित्तसंस्थाभ्यः आग्रहं करोमि यत् प्रधानमन्त्री नरेन्द्रमोदिनः महत्याः पीएम स्वनिधियोजनायाः अधिकाधिकलाभप्रदानार्थं बैंककर्मिणः पूर्णेच्छाशक्त्या कार्यं कुर्वन्तु।

आयुक्तः आशुतोषपाण्डेयः अस्मिन् अवसरे उक्तवान् यत् एतत् अस्माकं सर्वेषां कृते हर्षस्य विषयः अस्ति यत् प्रधानमन्त्रि स्वनिधियोजनायाः क्रियान्वयने लक्ष्यप्राप्तौ च नगरनिगम कोरबा सम्पूर्णप्रदेशे प्रथमस्थानं प्राप्नोति। वर्ष २०३० पर्यन्तं यत् लक्ष्यं अस्मभ्यं प्रदत्तम् आसीत् तस्य लक्ष्यस्य ८५ प्रतिशतं वयं प्राप्तवन्तः स्म।

अस्मिन् अवसरे वरिष्ठपार्षदः नरेन्द्रदेवाङ्गनः स्वसम्बोधने उक्तवान् यत् नगरीयपथविक्रेतॄणां लघुव्यवसायिनां च आर्थिकसंरचनां पीएम स्वनिधियोजना सुदृढां करोति। एतेभ्यः लघुव्यवसायिभ्यः आर्थिकसहायतां प्रदाय तान् व्यवसायसञ्चालने समर्थान् कर्तुम् अस्याः योजनायाः प्रमुखोद्देश्यः अस्ति।

अस्मिन् अवसरे निगमस्य पूर्वसभापतिः वरिष्ठपार्षदः अशोकचावलानी उपस्थितान् पथविक्रेतॄन् लघुव्यवसायिनश्च प्रोत्साहयन् उक्तवान् यत् प्रधानमन्त्रि स्वनिधियोजनायाः अन्तर्गतं प्राप्तस्य ऋणस्य सदुपयोगं कृत्वा ते स्वव्यवसायं अधिकं विकसितं कुर्वन्तु, इति मम शुभेच्छा अस्ति।

पीएम स्वनिधिमहोत्सवस्य लोककल्याणमेलायाश्च समये बहुसंख्यया समागतानां नगरीयपथविक्रेतॄणां अन्येषां नागरिकानां च प्रधानमन्त्रि-जनआरोग्ययोजना, आयुष्मानभारतयोजना, पीएम सुरक्षाबीमायोजना, प्रधानमन्त्रि जीवनज्योतिबीमायोजना, अटलपेंशनयोजना, प्रधानमन्त्रि जनधनयोजना सहितानां विविधजनकल्याणकारीयोजनानां विषये विस्तरेण सूचना प्रदत्ता।

Hindusthan Samachar / Dheeraj Maithani