राहुलगान्धी अद्य कोटातः राष्ट्रव्यापि-आन्दोलनस्य शुभारम्भं करिष्यति
नवदेहली, १७ जूनमास: (हिस.)। लोकसभायाः विपक्षनेता राहुलगान्धी नीट-प्रश्नपत्र-प्रसारणस्य छात्राणां समस्याः च अधित्य बुधवासरे राजस्थानस्य कोटा-नगरात् राष्ट्रव्यापिनम् ‘छात्राणां घोषः’ इति आन्दोलनं प्रारभ्स्यते। काङ्ग्रेस-दलेन प्रकाशितायाम् आधिकारिकसू
राहुल गांधी


नवदेहली, १७ जूनमास: (हिस.)। लोकसभायाः विपक्षनेता राहुलगान्धी नीट-प्रश्नपत्र-प्रसारणस्य छात्राणां समस्याः च अधित्य बुधवासरे राजस्थानस्य कोटा-नगरात् राष्ट्रव्यापिनम् ‘छात्राणां घोषः’ इति आन्दोलनं प्रारभ्स्यते।

काङ्ग्रेस-दलेन प्रकाशितायाम् आधिकारिकसूचनायां उक्तम् यत् ‘छात्राणां घोषः’ इति महारल्याः अन्तर्गतं समग्रे देशे प्रदर्शनानि, जनजागरूकताभियानानि तथा चर्चाः आयोजयिष्यन्ते।

काङ्ग्रेस-दलेन आरोपः कृतः यत् प्रधानमन्त्री नरेन्द्रमोदिनः कार्यकाले शिक्षायाः विनियोजितं वित्तमानं दशकपूर्वस्य ४.७ प्रतिशतात् अधुना २.४ प्रतिशतपर्यन्तम् अवनतम् अस्ति। तस्य परिणामस्वरूपं प्रायः एकलक्षं राजकीयविद्यालयाः पिहिताः सन्ति।

दलस्य वक्तव्ये राष्ट्रीय-पात्रता-सह-प्रवेश-परीक्षायाः तथा केन्द्रीय-माध्यमिक-शिक्षा-मण्डलस्य कथित-वंचनानाम्, पुनः पुनः भवतां प्रश्नपत्र-प्रसारणानाम्, अत्यधिक-प्रशिक्षण-शुल्कस्य तथा बेरोजगारी-समस्यायाः उल्लेखः कृत्वा केन्द्रीय-शिक्षामन्त्रिणः त्यागपत्रस्य आग्रहः कृतः।

वक्तव्ये दावः कृतः यत् देशे २९.१ प्रतिशतं स्नातकाः बेरोजगाराः सन्ति तथा गतदशके छात्र-आत्महत्याप्रकरणानां सङ्ख्या ६५ प्रतिशतेन वर्धिता अस्ति।

कोटा-नगरात् अनन्तरम् एतत् अभियानं भारतीय-राष्ट्रीय-छात्र-सङ्घटनस्य तथा युवा-काङ्ग्रेसस्य नेतृत्वे अग्रे प्रवर्तिष्यते। अस्य अन्तर्गतं राहुलगान्धी प्रयागराजे, पाटलिपुत्रे तथा देहल्यां आयोज्यमानान् सम्मेलनान् अपि सम्बोधयिष्यति।

Hindusthan Samachar / Divya Ranjan