Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 17 जूनमासः (हि.स.)।उत्तराखण्डे एपीएल तन्नाम राज्यखाद्ययोजना तथा अन्त्योदय राशनकार्डनिर्माणार्थं निर्धारितायाः आयसीमायाः पुनर्समीक्षा क्रियते। खाद्यनागरिकापूर्तिमन्त्री रेखाआर्या अधिकारिभ्यः समितेः गठनं कृत्वा वर्तमानमानदण्डानां पुनर्मूल्याङ्कनस्य निर्देशान् प्रदत्तवती।
बुधवासरे आयोजितायां विभागीयसमीक्षाउपवेशने मन्त्रिणी उक्तवती यत् राशनकार्डार्थं निर्धारिताः आयमानदण्डाः अतीव प्राचीनाः जाताः सन्ति, येन पात्रजनाः विविधाः कठिनताः अनुभवन्ति। सा जिला पूर्त्यधिकारिणां सुझावान् गृहीत्वा संशोधनप्रस्तावस्य निर्माणं कर्तुं निर्देशितवती।
उपवेशनानन्तरं रेखाआर्या अवदत् यत् राशनविक्रेतॄणां नवम्बरमासात् अवशिष्टः लाभांशः एकसप्ताहस्य अन्तरे प्रदास्यते। अधुना केन्द्रसर्वकारात् ३९ कोटिरूप्यकाणां धनराशिः प्राप्ता अस्ति, यस्य साहाय्येन भुगतानप्रक्रिया सम्पन्ना भविष्यति।
राशनविक्रेतृसङ्गठनेन राज्यखाद्ययोजनायाः अन्तर्गतं लाभांशस्य राशिः ५० रूप्यकेभ्यः वर्धयित्वा १८० रूप्यकाणि कर्तुम् आग्रहः कृतः। अस्मिन् विषये मन्त्रिणी उक्तवती यत् सर्वकारः शीघ्रमेव एतत्सम्बद्धं प्रस्तावं मन्त्रिमण्डले प्रस्तोष्यति।
तया अधिकारिणः निर्देशिताः यत् ३० जूनपर्यन्तं राशनवितरणव्यवस्था पूर्णतया आनलाइनप्रणाल्यां परिवर्तनीया तथा हस्तलिखितपञ्जीधारणव्यवस्था समाप्तव्या। सहैव नवीनराशनकार्डमृदु-उपागमस्य सञ्चालनार्थं जिला पूर्त्यधिकारीणां निरीक्षकाणां च प्रशिक्षणमपि प्रदास्यते।
चारधामयात्रां दृष्ट्वा सर्वेषु जनपदेषु आगामीत्रिमासस्य राशनम् अग्रिमरूपेण विक्रयकेन्द्रेषु प्रेषयितुं निर्देशाः प्रदत्ताः, येन वितरणकार्यं न प्रभावितं भवेत्।
उपवेशने एलपीजी आपूर्तेः समीक्षाकाले मन्त्रिणी उक्तवती यत् प्रदेशे गृहप्रयोजनार्थं व्यावसायिकप्रयोजनार्थं च गैससिलेण्डराणाम् आपूर्तिः सामान्यावस्थायाम् अस्ति तथा कुत्रापि न्यूनतायाः परिवादाः न प्राप्ताः।
अस्मिन् अवसरे राशनविक्रेतृणां कृते बीमायोजनाविषये अपि चर्चा अभवत्। मन्त्रिणी खाद्यआयुक्तस्य नेतृत्वे समितेः गठनं कृत्वा विविधाभिः बीमाकम्पनीभिः सह वार्तालापं कर्तुं निर्देशान् प्रदत्तवती।
उपवेशने एतदपि निर्णीतं यत् कुटुम्बस्य कस्यचित् सदस्यस्य मृत्योः अनन्तरं तस्य नाम राशनकार्डात् समये न निष्कास्य तस्य नाम्ना राशनग्रहणस्य प्रकरणेषु धनापाहरणे तथा वैधानिककार्यवाहीसम्बद्धाः प्रावधानाः स्थापयिष्यन्ते।
उपवेशने खाद्यआयुक्तः बंसीलालराणः, अपरआयुक्तः पीएस जंगपांगी, राशनविक्रेतृसङ्गठनस्य प्रदेशाध्यक्षः रेवाधरबृजवासी तथा सर्वेषां जनपदानां जिला पूर्त्यधिकारीणः दृश्यसम्मेलनमाध्यमेन सहभागी अभवन्।
Hindusthan Samachar / Dheeraj Maithani