Enter your Email Address to subscribe to our newsletters

लखनऊ, 17 जूनमासः (हि.स.)।मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशशासनं बालिकाशिक्षायाः सशक्तीकरणाय कस्तूरबागान्धीबालिकाविद्यालयानां आधुनिकसुविधाभिः सुसज्जीकरणाय च निरन्तरं दृढपदानि स्थापयति। अस्याः श्रेण्याः अन्तर्गतं विगतदिनेषु आयोजितायां विभागीयसमीक्षोपवेशने छात्रीणां सुरक्षा गुणवत्तायुक्तशिक्षा अङ्कीयाधिगमः छात्रावासनिर्वाहः क्रीडाक्रियाः छात्रवृत्तिप्रदानम् आधारभूतसुविधाश्च इत्यादिभिः सम्बद्धेषु अष्टादश महत्त्वपूर्णविषयेषु समयबद्धकार्यवाह्याः निर्देशाः प्रदत्ताः। योगीशासनस्य लक्ष्यं प्रत्येकस्यै बालिकायै सुरक्षितं सुविधासम्पन्नं गुणवत्तायुक्तं च शैक्षणिकपर्यावरणं प्रदातुम् अस्ति।
योगीशासनं बालिकाशिक्षां केवलं विद्यालयीयाध्ययनपर्यन्तं सीमितां न करोति। तां सुरक्षा स्वास्थ्यं अङ्कीयसाक्षरता क्रीडा छात्रावाससुविधाः जीवनकौशलं च सह सम्बध्य समग्रविकासस्य माध्यमं निर्माति। सुरक्षातः शिक्षापर्यन्तं छात्रवृत्तेः स्मार्टलर्निङ्गपर्यन्तं छात्रावासात् क्रीडासुविधापर्यन्तं च प्रदत्ताः निर्देशाः स्पष्टं दर्शयन्ति यत् योगीशासनं कस्तूरबागान्धीबालिकाविद्यालयान् बालिकासशक्तीकरणस्य सशक्तकेन्द्ररूपेण विकसितुं प्रतिबद्धम् अस्ति। एषा पहलः प्रदेशस्य सहस्रशः बालिकाः गुणवत्तायुक्तशिक्षया सुरक्षितपर्यावरणेन आत्मनिर्भरभविष्यस्य नूतनसम्भावनाभिश्च संयोजयितुं महत्त्वपूर्णं पदं सिद्धा भविष्यति।
राज्यशासनस्य प्रवक्ता अवदत् यत् तीव्रग्रीष्मतापस्य दृष्ट्या सर्वेषु विद्यालयेषु शीतलकयन्त्राणि पङ्खानि वातनिर्गमनयन्त्राणि जनित्रयन्त्राणि च उपलब्धानि भवन्तु इति निर्देशाः प्रदत्ताः। सहैव एकसप्ताहस्य अन्तर्गतं खाद्यान्नपूर्तिसम्बद्धाः प्रक्रियाः सम्पाद्य विद्यालयेषु आवश्यकसामग्रीणाम् उपलब्धता सुनिश्चितीकरणाय आदेशाः प्रदत्ताः। बालिकानां कर्मकराणां च शतप्रतिशतउपस्थितिः सुनिश्चितीकरणीयाऽस्ति तथा च छात्रीभ्यः ग्रीष्मकालीनगृहकार्यस्य उपलब्धतायाम् अपि बलं दत्तम्।
योगीशासनेन जूनमासस्य प्रगतिवृत्तान्तः आसनक्रयः रोटीनिर्माणयन्त्रम् प्रक्षालनयन्त्रम् सौरजलतापकः लोकसंगीतवाद्ययन्त्रम् मुक्तव्यायामशाला च इत्यादयः अनुमोदिताः कार्यक्रमाः समयबद्धरूपेण पूर्णीकरणीयाः इति निर्देशाः प्रदत्ताः।
अङ्कीयशिक्षा छात्रवृत्तिव्यवस्था च सुदृढा भविष्यति। विद्यालयेषु अङ्कीयमञ्चाधारितशिक्षणस्य संवर्धनार्थं सङ्गणकयन्त्राणि ब्रॉडबैण्डसेवा अनन्तदत्तांशोपलब्धता च सुनिश्चितीकरणीयाः इति निर्देशाः प्रदत्ताः। छात्रवृत्तियोजनायाः अन्तर्गतं पूर्ववर्तमानवर्गयोः छात्रीणां विवरणं भुगतानस्थितिः तथा च बैङ्कलेखानां सीडिङ्गस्थितिः समीक्ष्य समयबद्धकार्यवाही सुनिश्चितीकरिष्यते येन पात्राः छात्र्यः विना कस्यापि विघ्नस्य लाभं प्राप्नुयुः।
छात्रावासक्रीडासुरक्षाव्यवस्थाभ्यः नूतना गतिः प्रदास्यते। निर्माणाधीनछात्रावासाः अतिरिक्तनिद्रागृहाणि सङ्गणकप्रयोगशालाः शौचालयखण्डाश्च इत्येषां कार्याणां सत्यापनं उपयोगप्रमाणपत्रप्रदानं च शीघ्रं कर्तुं निर्देशाः प्रदत्ताः। यासां परियोजनानां निर्माणकार्यं नवतिशतांशात् अधिकं सम्पन्नं जातम् अस्ति ताः शीघ्रं हस्तान्तर्य सञ्चालनं प्रारभ्यताम् इति अपि निर्देशाः प्रदत्ताः।
---------------
Hindusthan Samachar / Dheeraj Maithani