Enter your Email Address to subscribe to our newsletters

नवदेहली, जूनमासः १७ दिनाङ्कः (हि.स.)। महाराष्ट्रराज्यस्य राजनीतौ पुनरेकवारं तीव्रं कम्पनं समुत्पन्नम् अस्ति। संजयराउत-महोदयस्य तीक्ष्णप्रतिक्रियायाः मध्ये, शिवसेनादलस्य अनेके सांसदाः विद्रोहं कर्तुं सज्जाः सन्ति इति चर्चाः प्रवर्धन्ते। सः अवदत् यत् यदि कश्चित् दलं त्यक्तुम् इच्छति तर्हि प्रथमं स्वपदात् त्यागपत्रं दद्यात्, ततः पश्चात् एव अन्यं राजनैतिकनिर्णयं कुर्यात्।
दिल्लीनगरे आयोजितायां पत्रकारवार्तायां राउतः आरोपितवान् यत् दलस्य केचन सांसदाः दलपरिवर्तनार्थं पञ्चदश-पञ्चदश कोटिरूप्यकाणि प्राप्तवन्तः। तेन अपि उक्तं यत् एते सांसदाः अनन्तरं चार्टर्ड-विमानैः विभिन्नस्थानभ्यः नीताः। तथापि स्वस्य आरोपाणणां समर्थनार्थं तेन किमपि प्रत्यक्षप्रमाणं न प्रदर्शितम्।
राउतः उक्तवान् यत् दलस्य वर्तमानपरिस्थितिं दृष्ट्वा श्वः भविष्यमाणायाः संसदीयदलस्य सभायाः कृते व्हिप-निर्देशः निर्गतः। तेन सर्वे सांसदाः सभायां उपस्थिताः भवितुम् आदिष्टाः सन्ति। अपि च तेन सूचितं यत् दलस्य सांसदः अरविंदसावंतः एतस्मिन् विषये ओमबिरला-महाभागाय पत्रं प्रेषितवान्।
विद्रोहभावं प्रदर्शयद्भ्यः नेतृभ्यः लक्ष्यीकृत्य राउतः अवदत् यत् ये दलेन सह विश्वासघातं कुर्वन्ति ते न क्षम्यन्ते। सः माध्यमप्रतिनिधिभ्यः अपि अनुरोधं कृतवान् यत् तस्य वक्तव्यानि सम्यक् प्रदर्श्यन्ताम्, न च सन्दर्भात् पृथक्कृत्य प्रसारितानि भवन्तु।
अस्मिन् प्रसङ्गे सांसदः अरविन्दसावन्तः अवदत्— “वयं संविधानस्य रक्षणस्य विषये लोकसभाध्यक्षाय ओमबिर्लाय पत्रं प्रेषितवन्तः। अद्यावधि दलस्य कश्चन नेता अस्मान् न उक्तवान् यत् सः दलं त्यक्त्वा गच्छति।”
उल्लेखनीयम् अस्ति यत् उद्धव ठाकरे-नेतृत्वयुक्तायाः शिवसेना (यूबीटी) दलस्य नव लोकसभासांसदेषु षट् अथवा सप्त सांसदानां विद्रोहस्य चर्चाः राजनैतिकवृत्तेषु तीव्रतया प्रचलन्ति। वार्ताः सन्ति यत् एते सांसदाः एकनाथ शिंदे-नेतृत्वयुक्ते शिवसेनादले सम्मिलिताः भवितुम् अर्हन्ति। अपि च लोकसभाध्यक्षेण मिलित्वा पृथक् संसदीयसमूहस्य मान्यतां प्राप्तुं प्रक्रिया आरब्धा इति अपि चर्चा वर्तते।
तथापि अद्यावधि कश्चन सांसदः सार्वजनिकरूपेण दलत्यागस्य घोषणां न कृतवान्। अतः अग्रिमदिनेषु शिवसेनादलस्य राजनीति तथा महाराष्ट्रस्य राजनैतिकसमीकरणेषु सर्वेषां दृष्टिः स्थिरा वर्तते।
Hindusthan Samachar / Divya Ranjan