जनकल्याण शिविरस्य अवधिः एकदिनात्मको वर्धितः, अधुना गुरुवासरतश्चलिष्यति अभियानम् : मुख्यमंत्री शुभेंदु अधिकारी
कोलकाता, 17 जूनमासः (हि. स.)। राज्यव्यापिनः जनकल्याणशिविराणि यत्र बहुसंख्यकजनसमागमः दृश्यते तस्य दृष्ट्या पश्चिमबङ्गशासनेन शिविराणां अवधेः एकदिनपर्यन्तं विस्तारस्य निर्णयः कृतः। मुख्यमन्त्री शुभेन्दुअधिकारी बुधवासरे दक्षिणचतुर्विंशतिपरगनाजनपदस्य फल
मुख्यमंत्री शुभेंदु अधिकारी के साथ राज्य की मंत्री अग्निमित्रा पाल फाइल फोटो


कोलकाता, 17 जूनमासः (हि. स.)। राज्यव्यापिनः जनकल्याणशिविराणि यत्र बहुसंख्यकजनसमागमः दृश्यते तस्य दृष्ट्या पश्चिमबङ्गशासनेन शिविराणां अवधेः एकदिनपर्यन्तं विस्तारस्य निर्णयः कृतः। मुख्यमन्त्री शुभेन्दुअधिकारी बुधवासरे दक्षिणचतुर्विंशतिपरगनाजनपदस्य फलताक्षेत्रे आयोजितस्य जनकल्याणशिविरस्य निरीक्षणं कृत्वा घोषणाम् अकरोत् यत् इदम् अभियानं अधुना गुरुवासरपर्यन्तं प्रवर्तिष्यते।

मुख्यमन्त्री उक्तवान् यत् निर्धारितकाले सर्वेषु क्षेत्रेषु पर्याप्तसंख्यकाः शिविराः आयोजयितुं न शक्यन्ते स्म। अतः विभिन्नेषु शिविरेषु लाभार्थिनां दीर्घाः पङ्क्तयः दृश्यन्ते। सः उक्तवान् यत् राज्यस्य जनाः शासनस्य प्रति विश्वासं प्रदर्शयन्ति तथा च बहुसंख्यया शासकीययोजनानां लाभं प्राप्तुं शिविरेषु समागच्छन्ति।

सः अवदत् यत् जनकल्याणशिविराणां माध्यमेन केन्द्रशासनस्य राज्यशासनस्य च विविधयोजनानां लाभः एकस्मिन्नेव स्थले उपलब्धः क्रियते। मुख्यमन्त्रिणः अनुसारं शासनं सुनिश्चितं करोति यत् नागरिकाः सर्वासां कल्याणकारीयोजनानां लाभं पूर्णपारदर्शितया विना भ्रष्टाचारं प्राप्नुयुः।

शुभेन्दुअधिकारी उक्तवान् यत् राज्यवासिनः कस्यापि प्रकारस्य अनियमिततां विना योजनानां लाभं प्राप्नुयुः इति हेतोः विशेषव्यवस्था कृता अस्ति। सः अवदत् यत् शिविरेषु निरन्तरं वर्धमानजनसमागमं दीर्घपङ्क्तींश्च दृष्ट्वा अवधिविस्तारस्य निर्णयः कृतः।

मुख्यमन्त्री अवदत् यत् समग्रतया चतुःपञ्चाशत् योजनाः जनकल्याणशिविराणां माध्यमेन जनेभ्यः प्राप्यन्ते। तासु आयुष्मानभारतयोजना सर्वाधिकमहत्त्वपूर्णा अस्ति। सः उक्तवान् यत् राज्यस्य एककोटित्रिचत्वारिंशल्लक्षपरिवाराः तथा च प्रायः षट्कोटिपञ्चाशल्लक्षजनाः अस्याः योजनायाः लाभं प्राप्स्यन्ति। अस्याः योजनायाः अन्तर्गतं देशस्य कस्मिन्नपि शासकीयनिजीचिकित्सालये वा पञ्चलक्षरूप्यकपर्यन्तं चिकित्सासुविधा उपलब्धा भविष्यति।

सः प्रधानमन्त्रिसूर्यगृहयोजनायाः अपि उल्लेखम् अकरोत्। मुख्यमन्त्री उक्तवान् यत् ग्रामीणक्षेत्रेषु न्यूनायवर्गीयपरिवाराः अस्याः योजनायाः लाभं प्राप्तुं शक्नुवन्ति। योजनायाः अन्तर्गतं शतयूनिटक्षमतायै त्रिंशत्सहस्ररूप्यकाणां द्विशतयूनिटक्षमतायै षष्टिसहस्ररूप्यकाणां त्रिशतयूनिटक्षमतायै अष्टसप्ततिसहस्ररूप्यकाणां पर्यन्तं अनुदानं प्रदास्यते। अस्याः योजनायाः लाभप्राप्त्यर्थं जनकल्याणशिविरेषु पञ्जीकरणम् आवश्यकं भविष्यति।

मुख्यमन्त्रिणः घोषणानन्तरं जनकल्याणशिविराणाम् अवधिविस्तारसम्बद्धायाः अधिसूचनायाः निर्गमनप्रक्रिया अपि आरब्धा अस्ति।

Hindusthan Samachar / Dheeraj Maithani