Enter your Email Address to subscribe to our newsletters

उदयपुरम्, १७ जूनमासः (हि.स.)। राष्ट्रिय-स्वयंसेवक-संघस्य सरसंघचालकः डॉ.मोहन-भागवतः अवदत् यत् भारतस्य इतिहासः दासताया: न, अपितु आक्रान्तृभिः सह निरन्तर-संघर्षस्य इतिहासः अस्ति। हल्दीघाटी-युद्धं केवलं महाराणा-प्रतापस्य तस्य सेनायाः वा युद्धं नासीत्, अपितु सम्पूर्णस्य समाजस्य सामूहिक-प्रतिरोधस्य प्रतीकम् आसीत्। उपलब्धैः ऐतिहासिक-तथ्यैः तथा स्वयम् मुगल-इतिहासकाराणां विवरणैः अपि एतत् स्पष्टं भवति यत् हल्दीघाटी-युद्धे विजयः महाराणा-प्रतापस्य एव अभवत्।
सः बुधवासरे उदयपुरस्य गांधी-प्रांगणे महाराणा-प्रतापस्य ४८६-तम-जयंतीम् तथा हल्दीघाटी-विजयस्य ४५० वर्ष-पूर्णतायाः उपलक्ष्ये आयोजितां ‘राष्ट्र-चेतना-संकल्प-सभाम्’ सम्बोधयन् उक्तवान् यत् अद्य सम्पूर्णे देशे महाराणा-प्रतापस्य जयंती श्रद्धया गौरवेण च आचर्यते। एतत् अस्य प्रमाणम् अस्ति यत् राष्ट्रं तान् महापुरुषान् स्मरति, ये स्वाभिमानस्य, स्वातन्त्र्यस्य तथा संस्कृतेः रक्षणार्थं संघर्षम् अकुर्वन्।
भागवतः अवदत् यत् हल्दीघाटी-युद्धे सेना, संसाधनानि तथा शस्त्राणि इत्येषां दृष्ट्या मुगल-साम्राज्यस्य पक्षः अधिकः सबलः आसीत्। महाराणा-प्रतापस्य समीपे सीमित-साधनानि, अल्पं वित्तम् तथा न्यूनतरा सैन्य-शक्तिः आसीत्, तथापि सः संघर्षमार्गं न त्यक्तवान्। सः उक्तवान् यत् भारतीयः समाजः कदापि पराधीनतां सहजतया न स्वीकृतवान्। यदा यदा कश्चन आक्रान्ता अस्यां भूमौ आधिपत्यं स्थापयितुम् अयतत्, तदा तदा तस्य प्रतिरोधः तत्क्षणमेव आरब्धः।
सरसंघचालकेन उक्तं यत् इतिहासस्य अनेके प्रसङ्गाः काले काले विशेष-दृष्टिकोणेन प्रस्तुताः। हल्दीघाटी-युद्धस्य विषयेऽपि तथैव जातम्। मुगल-इतिहासकाराणां विवरणेषु स्वयमेव उल्लिखितम् अस्ति यत् युद्धकाले मुगल-सेनायाः प्रत्यागमनम् अभवत्। यदि युद्धस्य विभिन्नावस्थासु मुगल-सेना पुनः पुनः कठिनतां प्राप्नोत् तथा युद्धोत्तरकालेऽपि भयाकुला आसीत्, तर्हि वास्तविक-विजयः कस्य आसीत् इति पुनर्विचारः आवश्यकः।
युद्धस्य विविध-प्रसङ्गान् निर्दिशन् सः अवदत् यत् प्रथम-आक्रमणे मुगल-सेनायाः प्रतिनिवर्तनम् अभवत्। द्वितीय-चरणे प्रतापस्य सेनायाः पराक्रमस्य प्रभावेण शत्रुपक्षस्य प्रमुख-योधाः महतीं हानिम् अनुभूतवन्तः। चेतकस्य अद्वितीय-साहसं युद्ध-कौशलं च अपि तेन स्मारितम्। तृतीय-चरणस्य अनन्तरं मुगल-सेनायाः अवस्था एतादृशी जाता यत् सा निर्भयतया अग्रे गन्तुं नाशक्नोत्, अपितु स्वस्य रक्षणे एव प्रवृत्ता अभवत्।
भागवतः पुनः अवदत् यत् भारतस्य इतिहासः तेषां नास्ति ये पराजयं स्वीकृत्य उपाविशन्, अपितु तेषां अस्ति ये निरन्तरं संघर्षम् अकुर्वन्। पश्चिमदिशः उद्भूता या आक्रामक-तरंग: स्पेनदेशात् साइबेरिया-प्रदेशपर्यन्तं स्वप्रभावं प्रसारितवती, सा भारतमपि प्रवेष्टुम् अयतत्; किन्तु बप्पा-रावलः, ललितादित्यः तथा अन्ये वीराः तस्याः सफलतां न अनुमन्यन्त।
सः अवदत् यत् भारतीयः समाजः अनेकाः कठिनताः संघर्षान् च सोढवान्, तथापि स्वसंस्कृतिं स्वधर्मं च सुरक्षितवान्। समाजे मतभेदाः सम्भवन्ति, किन्तु राष्ट्रस्य संस्कृतेः वा संकटे उपस्थिते सम्पूर्णः समाजः एकतया तिष्ठति। तथापि केवलं संकटसमये एव न, सामान्यावस्थास्वपि समाजस्य संघटितत्वम् अत्यावश्यकम्। महाराणा-प्रतापस्य जीवनम् अस्यैव सन्देशस्य प्रतीकम् अस्ति।
ऐतिहासिक-उदाहरणानि निर्दिशन् भागवतः अवदत् यत् कतिपयेषु कालेषु विजेतृभिः अथवा सत्तासमीपवर्तिभिः स्वदृष्ट्या इतिहासः लिखितः। बाबू-कुँवरसिंहस्य उदाहरणम् उद्धृत्य सः उक्तवान् यत् आङ्ग्ल-शासनस्य विरुद्धे संघर्षे सः स्वराज्यम् पुनः प्राप्तवान्, दीर्घकालं स्वतन्त्र-शासनमपि कृतवान्; तथापि कतिपयेषु इतिहास-विवरणेषु तद्वृत्तान्तः अन्यथा प्रस्तुतः। तथैव हल्दीघाटी-युद्धस्य विषयेऽपि तथ्यनां पुनः समीक्षा अपेक्षिता।
सरसंघचालकः अवदत् यत् महाराणा-प्रतापः ‘हिन्दुआ-सूर्यः’ इति प्रसिद्धः। सः कदापि स्वधर्मे, स्वाभिमाने, स्वमूल्येषु च सन्धिं न कृतवान्। तस्य संघर्षः न कस्यचित् व्यक्तिगत-स्वार्थस्य अथवा सत्ताप्राप्तेः कृते आसीत्, अपितु समाजस्य, संस्कृतेः तथा राष्ट्रस्य रक्षणार्थम् आसीत्। स्वजीवनेन सः आदर्श-शासनस्य लोककल्याणकारी-राज्यस्य च उत्कृष्टम् उदाहरणं प्रदर्शितवान्। तेन उक्तं यत् महाराणा-प्रतापस्य जीवनस्य कृतित्वस्य च विषये अद्यापि व्यापक-अध्ययनस्य आवश्यकता वर्तते, नूतन: वंश: च तस्य जीवनात् प्रेरणां गृह्णीयात्।
सभां सम्बोधयन् निम्बार्क-पीठस्य पीठाधीश्वरः श्रीजी-श्यामचरण-महाराजः अवदत् यत् अद्य समाजे एकतायाः, संघटनस्य तथा सांस्कृतिक-मूल्यानां संरक्षणस्य महती आवश्यकता वर्तते। समाजः विभाजनकारी-प्रवृत्तिभ्यः दूरं स्थित्वा सकारात्मकं रचनात्मकं राष्ट्रहितकरं च मार्गम् अनुसरेत्। भारतीय-संस्कृतेः मूल-सन्देशः समरसता, एकता तथा लोककल्याणम् अस्ति, एतेषामेव आदर्शानाम् आधारेण राष्ट्रस्य प्रगतिः साध्या भविष्यति।
Hindusthan Samachar / Divya Ranjan