गङ्गायाः अविरलप्रवाहस्य संरक्षणाय सर्वकारः प्रतिबद्धः - राजभूषण-चौधरी
प्रयागराजः, जूनमासः १७ दिनाङ्कः (हि.स.)। केन्द्रसर्वकारस्य द्वादशवर्षीय-कार्यकालस्य पूर्णतायाः उपलक्ष्ये बुधवासरे आयोजितेषु विविधकार्यक्रमेषु भागं ग्रहीतुं प्रयागराजम् आगतः केन्द्रीय-जलशक्ति-राज्यमन्त्री राजभूषण-चौधरी बालसन-चतुष्पथे स्थितस्य पण्डित
केन्द्रीय मंत्री


प्रयागराजः, जूनमासः १७ दिनाङ्कः (हि.स.)। केन्द्रसर्वकारस्य द्वादशवर्षीय-कार्यकालस्य पूर्णतायाः उपलक्ष्ये बुधवासरे आयोजितेषु विविधकार्यक्रमेषु भागं ग्रहीतुं प्रयागराजम् आगतः केन्द्रीय-जलशक्ति-राज्यमन्त्री राजभूषण-चौधरी बालसन-चतुष्पथे स्थितस्य पण्डित-दीनदयाल-उपाध्यायस्य प्रतिमायाः स्वच्छीकरणेन वृक्षारोपणेन च कार्यक्रमस्य आरम्भम् अकरोत्।

केन्द्रीयमन्त्री प्रतिमायाः स्वच्छीकरणं वृक्षारोपणं च कुर्वन् जनान् पर्यावरणसंरक्षणस्य विषये सजगाः भवितुम् प्रेरितवान्। अस्मिन् अवसरे उपस्थिताः दश स्वच्छताकर्मिणः अङ्गवस्त्रैः फलैः च सम्मानिताः। ततः अनन्तरं मन्त्री प्रगतिपथयात्राकार्यक्रमस्य अन्तर्गतं दारागञ्जस्थितं ऐतिहासिकं धार्मिकं च दशाश्वमेधघाटम् अगच्छत्, यत्र तेन महाकुम्भ-२०२५ अवसरस्य सौन्दर्यीकरणकार्याणि अवलोकितानि तथा गङ्गाजलस्य आचमनम् अपि कृतम्। घाटात् अहिल्याबाई-होल्कर-महोदयायाः प्रतिमापर्यन्तं पदयात्रा अपि कृता। तत्र पुण्यश्लोका अहिल्याबाई-होल्कर-महोदयायाः प्रतिमायाः माल्यार्पणानन्तरं प्रगतिपथयात्रायाः समापनम् अभवत्।

अस्मिन् प्रसङ्गे माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् सः अवदत् यत् केन्द्रसर्वकारः गङ्गानद्याः अविरलप्रवाहस्य संरक्षणाय दृढसङ्कल्पितः अस्ति। एतस्मादेव कारणात् जलशक्ति-मन्त्रालयेन ‘नमामि गङ्गे’ योजना प्रवर्तिता, यस्य प्रभावः अधुना स्पष्टतया दृश्यते। अस्याः योजनायाः अन्तर्गतं निरन्तरं कार्यं क्रियमाणम् अस्ति। नदीनां स्वच्छतायै सर्वकारेण अनेकानि कार्याणि कृतानि सन्ति। डॉल्फ़िन-मत्स्यानां च संख्या वर्धिता अस्ति, यत् गङ्गाजलस्य गुणवत्तायाः उन्नतिं सूचयति। विविधेषु परीक्षणेषु अपि गङ्गाजलस्य स्वच्छता सिद्धा जाता। गङ्गायाः जलप्रवाहः अविरलः अस्ति। नालिकाजलस्य शोधनं कृत्वा तस्य नदीप्रवेशः निरुध्यते।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य नेतृत्वे गतद्वादशवर्षेषु राष्ट्रस्य सर्वेषु क्षेत्रेषु विकासः अभवत्। जलसंरक्षणविषये जनानां मध्ये जागरूकता वर्धिता अस्ति। अग्रिम-वंशानां कृते जलसंरक्षणम् अत्यावश्यकम् अस्ति।

भारतीयजनतापक्षस्य माध्यमप्रभारी अवदत् यत् कार्यक्रमात् पूर्वं भाजपापक्षस्य महानगराध्यक्षः संजयगुप्तः तथा महापौरः गणेशकेसरवानी इत्येताभ्यां राजभूषण-चौधरी-महोदयस्य अङ्गवस्त्रैः सम्मानपूर्वकं स्वागतं कृतम्। अस्मिन् अवसरे शशिवार्ष्णेयः, अनिलकेशरवानी, रमेशपासी, आनन्दसोनकरः, कुञ्जबिहारीमिश्रः, अनुजकुशवाहः, आशीषद्विवेदी, विक्रमजीतभदौरिया, विजयश्रीवास्तवः, राघवेन्द्रकुशवाहः, अजय-आनन्दः, अनामिकाचौधरी, अनुपमापाण्डेयः, विवेकमिश्रः, पवनश्रीवास्तवः, अरुणपटेलः, दीपद्विवेदी, गणेशवर्मा, अतुलमेहरोत्रा, अमनशर्मा इत्यादयः बहवः कार्यकर्तारः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan