मुख्यमंत्री योगी उत्तर प्रदेशारक्षिणः 930 कम्प्यूटरसंचालकानां कृते दत्तं नियुक्ति पत्रम्
लखनऊ, 17 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे उत्तरप्रदेशपुलिसस्य सङ्गणकसञ्चालकेभ्यः नियुक्तिपत्राणि वितरितवान्। लोकभवने आयोजितम् एतत् कार्यक्रमम् सम्बोधयन् सः उक्तवान् यत् युवानां स्वप्नेभ्यः नूतनपक्षप्रदानं तेषां यो
नियुक्ति पत्र देते मुख्यमंत्री योगी


लखनऊ, 17 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे उत्तरप्रदेशपुलिसस्य सङ्गणकसञ्चालकेभ्यः नियुक्तिपत्राणि वितरितवान्। लोकभवने आयोजितम् एतत् कार्यक्रमम् सम्बोधयन् सः उक्तवान् यत् युवानां स्वप्नेभ्यः नूतनपक्षप्रदानं तेषां योग्यतायै अवसरप्रदानं परिश्रमस्य च सम्मानः इति पारदर्शिनी भर्तीप्रक्रिया डबलइञ्जनशासनस्य परिचायकः अस्ति।

मुख्यमन्त्री उक्तवान् यत् उत्तरप्रदेशपुलिसभर्तीप्रोन्नतिमण्डलेन निष्पक्षचयनप्रक्रियया चयनितेभ्यः नवशतत्रिंशत् सङ्गणकसञ्चालकेभ्यः ग्रेड ए इत्यस्य अन्तर्गतं नियुक्तिपत्राणि प्रदत्तानि। प्रौद्योगिकीदक्षताभ्यां सशक्ताः एते युवानः उत्तरप्रदेशपुलिसं अधिकाधुनिकां प्रभावशालिनीं जनोन्मुखीं च कर्तुं महत्त्वपूर्णं योगदानं दास्यन्ति।

मुख्यमन्त्री उक्तवान् यत् पूर्वकाले उत्तरप्रदेशस्य आईपीएस अधिकारिणः आईएएस अधिकारिभिः एवं सञ्चिकासु निरुद्धाः भवन्ति स्म यत् ताः सञ्चिकाः उद्घाटितुं न शक्यन्ते स्म। अर्थात् यमराजः अपि आगच्छेत् चेत् आईएएस अधिकारिणः हस्तात् सञ्चिकायाः उद्घाटनं कठिनम् आसीत्। वयं सप्तसु जनपदेषु पुलिसआयुक्तप्रणालीं प्रवर्तितवन्तः। एषा पुलिससुधारकार्यक्रमस्य एकः भागः अस्ति। येषां पुलिससुधारविषये ज्ञानं नास्ति ते आयुक्तप्रणाल्यां दोषारोपणं कुर्वन्ति। येषां पुलिसकार्यविषये ज्ञानं नास्ति ते अपि दोषारोपणं कुर्वन्ति। एते तादृशाः जनाः सन्ति येषां सामान्यनागरिकाणां सुविधा सुरक्षा च विषये चिन्ता नास्ति।

उत्तरप्रदेशपुलिसस्य कर्मचरिणः प्रति उपदेशं दत्त्वा मुख्यमन्त्री योगी उक्तवान् यत् वयं प्रायेण पश्यामः यत् कर्तव्यपालनकाले जनाः रील इति दृश्यसामग्रीनिर्माणे निरताः भवन्ति। एतत् अनुशासनहीनता अस्ति। तस्मिन् समये स्वकर्तव्यस्य प्रति सजगता आवश्यकी। यस्य यत्र नियुक्तिः अस्ति सः स्वकार्यं सम्यक् करिष्यति चेत् परिणामः स्वयमेव आगमिष्यति। तं परिणामम् आनयितुं दलभावनया सह अस्माभिः सर्वैः अग्रे गन्तव्यम्।

अस्मिन् अवसरे वित्तसंसदीयकार्यमन्त्री सुरेशखन्ना अपरमुख्यसचिवः गृहसूचनाविभागस्य संजयप्रसादः पुलिसमहानिदेशकः राजीवकृष्णः अन्ये च अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani