महाराणा प्रतापस्य जीवनं साहसस्य, स्वाभिमानस्य राष्ट्रभक्तेश्च अमरः आदर्शः : कृपा शंकर सिंहः
जौनपुरम्, 17 जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे वीरशिरोमणिनः महाराणाप्रतापस्य जयन्त्याः अवसर उपलक्ष्य बुधवासरे राजपूतसेवासमितेः तत्त्वावधाने श्रद्धया उत्साहेन गरिमामयेन च वातावरणेन सह समारोहः आचरितः। अस्मिन् अवसरे नगरस्य कलीचाबादस्थितात् महारा
राजपूत सेवा समिति के लोग महाराणा प्रताप सिंह की मूर्ति के पास खड़े


राजपूत सेवा समिति के लोग महाराणा प्रताप जयंती पर आयोजित कार्यक्रम में पुष्पांजलि अर्पित करते हुए


जौनपुरम्, 17 जूनमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे वीरशिरोमणिनः महाराणाप्रतापस्य जयन्त्याः अवसर उपलक्ष्य बुधवासरे राजपूतसेवासमितेः तत्त्वावधाने श्रद्धया उत्साहेन गरिमामयेन च वातावरणेन सह समारोहः आचरितः। अस्मिन् अवसरे नगरस्य कलीचाबादस्थितात् महाराणाप्रतापउद्यानात् द्विचक्रिकायात्रा निष्कासिता। यात्रा नगरस्य विविधमार्गैः गच्छन्ती महाराणाप्रतापस्य प्रतिमास्थलं प्राप्तवती, यत्र उपस्थितजनैः माल्यार्पणं कृत्वा वीरयोद्ध्रे श्रद्धाञ्जलिः समर्पिता।

कार्यक्रमस्य मुख्यातिथिः जौनपुरलोकसभाक्षेत्रस्य पूर्वप्रत्याशी कृपाशङ्करसिंहः उक्तवान् यत् महाराणाप्रतापस्य जीवनं साहसस्य स्वाभिमानस्य राष्ट्रभक्तेः च प्रतीकम् अस्ति। तेन उक्तं यत् महाराणाप्रतापः प्रतिकूलपरिस्थितिष्वपि स्वसिद्धान्तेभ्यः कदापि न विचलितः तथा च मातृभूमेः रक्षणार्थं स्वस्य सर्वस्वं समर्पितवान्। तस्य आदर्शाः अद्यापि समाजं युवजनांश्च प्रेरयन्ति। तेन युवभ्यः आह्वानं कृतं यत् ते महाराणाप्रतापस्य आदर्शान् स्वजीवने आत्मसात् कुर्युः तथा राष्ट्रनिर्माणे सक्रियां भूमिकां निर्वहेयुः।

अस्मिन् अवसरे राजपूतसेवासमितेः पदाधिकरिणः महाराणाप्रतापस्य जीवनसंघर्षेषु वीरतायां च प्रकाशं क्षिपन्तः तेन प्रदर्शितमार्गे गमनस्य सङ्कल्पं कृतवन्तः। कार्यक्रमस्य समये सुरक्षाव्यवस्थायाः दृष्ट्या पुलिसबलमपि नियुक्तम् आसीत्।

समितेः पदाधिकरिणः अवदन् यत् महाराणाप्रतापजयन्त्याः आयोजनं प्रतिवर्षं समाजे वीरतायाः एकतायाः राष्ट्रप्रेम्णः च भावनां सुदृढां कर्तुं क्रियते।

कार्यक्रमे भारतीयजनतापक्षस्य प्रदेशप्रवक्ता ओमप्रकाशसिंहः, शशिमोहनसिंहक्षेमः, प्रदीपसिंहः, अजीतकुमारसिंहः, रविन्द्रप्रतापसिंहः, रत्नाकरसिंहः, अजीतसिंहः, राजेशसिंहः, रविन्द्रसिंहः, सिद्धार्थसिंहः इत्यादयः बहुसंख्यकाः जनाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani