Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १७ जूनमासः (हि.स.)। केन्द्रस्य नरेन्द्र-मोदी-सर्वकारस्य सफलतम-त्रयोदश-वर्ष-पूर्त्यवसरे बुधवासरे रोहनिया-विधानसभाक्षेत्रे माण्डवी-तडागे, मण्डुवाडीहे स्वच्छता-अभियानं सञ्चालितम्। अस्मिन् अभियाने भारतीय-जनता-पक्ष-प्रदेशाध्यक्षः पंकज चौधरी स्थानीय-दल-कार्यकर्तृभिः सह उत्साहपूर्वकं भागं गृहीतवान्।
प्रदेशाध्यक्षः अभियाने मार्जनी-ग्रहणं कृत्वा श्रमदानं कृतवान्। अस्मिन् अवसरे सः उक्तवान् यत् स्वच्छ-भारतं एव समृद्ध-भारतस्य परिचायकम् अस्ति, प्रत्येकं नागरिकेण अस्मिन् विषये योगदानं करणीयम् इति। कार्यक्रमे “एक-तरु माँ-नाम” अभियाने अन्तर्गतं सः वृक्षारोपणमपि कृतवान्।
केंद्रीय-मन्त्रिणा पर्यावरण-संरक्षणस्य, स्वच्छतायाः तथा हरित-भारतस्य च सन्देशः दत्तः तथा जनान् अधिकाधिकं वृक्षारोपणाय आहूतम्। सः अवदत् यत् प्रकृति-संरक्षणे सर्वेषां सहभागितया एव स्वच्छ-हरित-समृद्ध-भारतस्य निर्माणं सम्भवति।
अस्मिन् कार्यक्रमे राज्य-मन्त्री हंसराज-विश्वकर्मा, क्षेत्रीय-अध्यक्षः दिलीप-पटेलः, जनपदाध्यक्षः रामसकल-पटेलः, जनपद-पंचायत-अध्यक्षा पूनम-मौर्या, विधायकाः डॉ.नीलकण्ठ-तिवारी, सौरभ-श्रीवास्तवः, महापौरः अशोक-तिवारी, वाराणसी-महामन्त्री प्रवीण-सिंह-गौतमः, अभिषेक-त्रिपाठी, अरविन्द-पटेलः, अजय-सिंह-मुन्ना, गोविन्द-दास-गुप्ता, सुरेश-पटेल-गुड्डू, सन्तः, गौरव-पटेलः इत्यादयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan