Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १७ जूनमास: (हि.स.)। पश्चिमबङ्गस्य झाड़ग्राम-जनपदस्य बेलपहाडी-क्षेत्रे दीर्घकालं माओवादी-आन्दोलने संलग्ना नेत्री पुष्पा उर्फ शकुन्तला उर्फ वर्षा बुधवासरे कोलकाता-पुलिस-मुख्यालये आत्मसमर्पणं कृत्वा मुख्यधारायां प्रत्यागमनस्य निर्णयम् अकरोत्।
सा २००१ वर्षात् माओवादी-क्रियाकलापेषु संलग्ना आसीत् तथा पीपुल्स् लिबरेशन गुरिल्ला आर्मी इत्यस्य सदस्यापि आसीत्। तस्याः उपरि दशलक्ष-रूप्यकाणां पुरस्कारः घोषितः आसीत्। आत्मसमर्पण-समये आरक्षकेण एका एसएलआर-राइफल, एकं मैगजीन तथा ३७ गोलकानि गृहीतानि।
पुष्पा अवदत् यत् वर्तमान-परिस्थितिषु आन्दोलनस्य अधिकं विस्तारः सम्भवः न दृश्यते। अतः सर्वकारस्य पुनर्वास-नीतिषु तथा परिवारसहित-निवासस्य आश्वासने विश्वासं कृत्वा सा मुख्यधारायां प्रत्यागन्तुं निर्णयम् अकरोत्।
पुलिस-अधिकारिणां मते एतत् आत्मसमर्पणं सुरक्षा-अभिकरणानां महत्त्वपूर्णा सफलता अस्ति। निरन्तरं आत्मसमर्पण-अभियानैः तथा गृहीत-अभियानैः माओवादी-सङ्घटनस्य गतिविधयः प्रभाविताः सन्ति, अनेके सदस्याश्च हिंसामार्गं परित्यज्य सामान्य-जीवनं प्रति प्रवृत्ताः भवन्ति।
Hindusthan Samachar / Divya Ranjan