Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 17 जूनमासः (हि.स.)।
द्वादशस्य अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये बलदेवअग्रवालनेचुरोपैथीकेन्द्रे मुरादाबादनगरे बुधवासरे पञ्चदिवसीययोगमहोत्सवस्य शुभारम्भः कृतः।
कार्यक्रमे भाजपामहिलामोर्चायाः प्रदेशोपाध्यक्षया प्रियाअग्रवालया दीपप्रज्वलनं कृतम्। ततः परं योगाभ्यासः कारितः। अस्मिन् अवसरे प्रियाअग्रवाल उक्तवती यत् योगस्य प्रति जनान् प्रेरयितुं प्रयोजनं केवलं रोगाणाम् उपचारः नास्ति अपितु स्वस्थसन्तुलितजीवनशैल्याः संवर्धनम् अपि अस्ति।
योगमहोत्सवे पतञ्जलियोगसमितेः मोक्षायतनयोगाश्रमस्य आर्टऑफलिविङ्ग संस्थायाः ब्रह्माकुमारीसंस्थायाः हार्टफुलनेससंस्थानस्य भारतीययोगसंस्थानस्य राष्ट्रियआयुर्वेदिकपरिषदः च अन्यासां संस्थानां प्रतिनिधयः उपस्थिताः आसन्। सञ्चालनं योगप्रोटोकॉलाभ्यासं च मास्टरयोगप्रशिक्षकः गौरवत्यागी कारितवान्।
----------------
Hindusthan Samachar / Dheeraj Maithani