मुख्यमंत्री कृषकेभ्यः प्रदत्तौ पुष्प रत्नम् एवं पुष्प सम्मान पुरस्कारश्च
फ्लोरीकल्चरक्षेत्रे उत्कृष्ट योगदानाय प्रगतिशील कृषकाः सम्मानिताःचंडीगढ़म् , 17 जूनमासः (हि.स.)।हरियाणाराज्ये झज्जरजिलस्य मुनीमपुरग्रामे बुधवासरे आयोजिते कार्यक्रमे हरियाणामुख्यमन्त्री नायबसिंहसैनी पुष्पोत्पादनक्षेत्रे उल्लेखनीययोगदानं प्रदर्शितवन्
हरियाणा के मुख्यमंत्री नायब सैनी झज्जर में प्रगतिशील किसानाें के साथ


फ्लोरीकल्चरक्षेत्रे उत्कृष्ट योगदानाय प्रगतिशील कृषकाः सम्मानिताःचंडीगढ़म् , 17 जूनमासः (हि.स.)।हरियाणाराज्ये झज्जरजिलस्य मुनीमपुरग्रामे बुधवासरे आयोजिते कार्यक्रमे हरियाणामुख्यमन्त्री नायबसिंहसैनी पुष्पोत्पादनक्षेत्रे उल्लेखनीययोगदानं प्रदर्शितवन्तः प्रगतिशीलकृषकान् सम्मानितवान्।

अस्मिन् अवसरे मुख्यमन्त्री नायबसिंहसैनी उक्तवान् यत् हरियाणायाः कृषकाः आधुनिककृषितन्त्रज्ञानं स्वीकृत्य कृषिक्षेत्रे नूतनान् आयामान् स्थापयन्ति। विशेषतः पुष्पोत्पादनक्षेत्रे कृषकैः स्वपरिश्रमेण नवाचारैः वैज्ञानिकपद्धतिभिः च उल्लेखनीया सफलता प्राप्ता अस्ति। तेन उक्तं यत् पुष्पोत्पादनं कृषकाणाम् आयवृद्धेः सह कृषिक्षेत्रे विविधीकरणस्य अपि प्रोत्साहनं करोति।

मुख्यमन्त्री सम्मानितकृषकेभ्यः शालां प्रशस्तिपत्रं सम्मानचिह्नं च प्रदाय तान् सम्मानितवान् तथा तेषाम् उज्ज्वलभविष्यस्य कामनाम् अकरोत्। तेन कृषकान् आधुनिकतन्त्रज्ञानस्य स्वीकरणाय तथा उद्यानिकीपुष्पोत्पादनयोः प्रोत्साहनाय आह्वानं कृतम्।

कार्यक्रमस्य समये मुख्यमन्त्री पुष्परत्नपुरस्कारैः फरीदाबादजिलस्य फतेहपुरबिलोचग्रामनिवासिनं ललितसैनी, पञ्चकूलाजिलस्य भारलीग्रामनिवासिनं छोटेलालं तथा नन्दपुरग्रामनिवासिनं राहुलसिंहं, रोहतकजिलस्य मडोदीजाटयानग्रामनिवासिनं राजकुमारं, रेवाडीजिलस्य ढाणीराधाग्रामनिवासिनं सुरेन्द्रकुमारं, खालेटाग्रामनिवासिनं सन्दीपकुमारं, खोलग्रामनिवासिनं सत्यनारायणं तथा ढवानाग्रामनिवासिनं ज्ञानीरामं, नारनौलजिलस्य डिगरोटाग्रामनिवासिनीं राजेशदेवीं च सम्मानितवान्।

एतदतिरिक्तं मुख्यमन्त्री गुरुग्रामजिलस्य हमीरपुरग्रामनिवासिनं केशवचौहानं तथा पलवलजिलस्य पाथलीकलांग्रामनिवासिनं रणवीरसिंहं अपि पुष्परत्नपुरस्कारं प्रदत्तवान्।

तथैव झज्जरजिलस्य सौन्धीग्रामनिवासिनः खजानसिंहस्य पुष्पोत्पादनक्षेत्रे विशेषोपलब्धीनां कृते पुष्पसम्मानेन सम्मानः कृतः।

कार्यक्रमे उपस्थितैः जनैः सम्मानितकृषकाणाम् उपलब्धीषु प्रसन्नता व्यक्तीकृता तथा तेभ्यः अभिनन्दनं प्रदत्तम्।

मुख्यमन्त्री नायबसिंहसैनी उक्तवान् यत् प्रदेशसर्वकारः कृषकाणाम् आयवृद्धये तथा उद्यानिकीक्षेत्रस्य प्रोत्साहनाय निरन्तरं प्रयत्नशीलः अस्ति। आधुनिकोद्यानिकीप्रविधीनाम्, अनुसन्धानस्य तथा प्रशिक्षणसुविधानां विस्तारस्य माध्यमेन कृषकेभ्यः अधिकः लाभः भविष्यति तथा हरियाणा पुष्पोत्पादनक्षेत्रे नूतनां परिचयं स्थापयिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani