Enter your Email Address to subscribe to our newsletters

जयपुरम्, 18 जूनमासः (हि.स.)।
मुख्यमन्त्रिणा भजनलाल शर्मणा राज्यस्य विभिन्नकृष्युपजमण्डीसमितीनाम् आधारभूतसंरचनायाः सुदृढीकरणार्थम् अष्टादशकोट्यधिकषडशीतिलक्षरूप्यकाणां व्ययेन विविधविकासकार्यार्थं प्रस्तावः अनुमोदितः। अनेन मण्डीप्राङ्गणनिर्माणम् सम्पर्कमार्गनिर्माणम् तथा क्षतिग्रस्तमार्गाणां मरम्मतकार्याणि कारयिष्यन्ते।
मुख्यमन्त्रिणा प्रदत्तया अस्याः स्वीकृतेः फलस्वरूपं सोजत सिटी पाली पलसाना श्रीमाधोपुर सीकर अन्नमण्डी बीकानेर मेड़ता सिटी नागौर तथा दूदू जयपुर इत्येषु कृष्युपजमण्डीसमितिषु विविधविकासकार्याणि सम्पादयिष्यन्ते। एतैः विकासकार्यैः मण्डीषु कृषकाणां वणिजां च कृते आधारभूतसुविधानां विस्तारः भविष्यति येन कृषिविपणनक्रियाकलापानां प्रोत्साहनं भविष्यति।
कृष्युपजमण्डीसमितिभिः सम्बद्धानां सम्पर्कमार्गाणां निर्माणेन तथा क्षतिग्रस्तसम्पर्कमार्गाणां मरम्मतेन ग्रामीणक्षेत्राणां कृषकाः स्वीयाम् उपजं सुगमतया मण्डीं प्रति नेतुं शक्नुवन्ति। अनेन मण्डीषु सस्यानाम् आवकः वर्धिष्यते कृषकाणां स्वीयोपजविक्रये सुगमता भविष्यति तथा मण्डीराजस्वस्यापि वृद्धिः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani