Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 18 जूनमासः (हि.स)।देशे निर्माणसामग्रीनिर्माणोद्योगयोः सुदृढीकरणार्थं “वन नेशन, वन एक्सपो” इति प्रदर्शनीयाः उद्घाटनं गुरुवासरे नवीदिल्लीस्थिते यशोभूमि कन्वेन्शनकेन्द्रे सम्पन्नम्। प्रथमदिने अत्र २५ सहस्राधिकाः आगन्तारः प्रदर्शनीं द्रष्टुम् आगतवन्तः।
वाणिज्योद्योगमन्त्रालयेन निर्गते विज्ञप्तिपत्रे उक्तं यत् भवननिर्माणसामग्रीनिर्माणोद्योगयोः कृते आयोजितायाः “भारत बिल्डकॉन २०२६” नाम्नः “वन नेशन, वन एक्सपो” प्रदर्शनीयाः उद्घाटनं नवीदिल्लीस्थिते यशोभूमि कन्वेन्शनकेन्द्रे केन्द्रीयवाणिज्योद्योगराज्यमन्त्री जितिन प्रसाद, केन्द्रीयआवासननगरीयकार्यमन्त्री मनोहर लाल तथा सांसदः पुरुषोत्तम रूपाला इत्येतेषां हस्ते निर्माणभवनसामग्री-उद्योगस्य प्रतिनिधीनां उपस्थितौ सम्पन्नम्।
अस्मिन् अवसरे स्वसम्बोधने वाणिज्योद्योगराज्यमन्त्री आर्थिकवृद्धेः संवर्धने तथा अन्ताराष्ट्रियविपणिषु भारतीयोद्योगानां कृते अवसरविस्तारे मुक्तव्यापारसम्झौतानां महत्त्वम् अवदत्। तेन भारतब्रिटेनव्यापकआर्थिकव्यापारसम्झौतस्य उल्लेखः कृतः तथा उक्तं यत् अस्मात् सहमतितः उभयदेशयोः मध्ये विपणिप्रवेशस्य वृद्धिः भविष्यति, व्यापारसम्बन्धाश्च अधिकसुदृढाः भविष्यन्ति। अनेन भारतीयनिर्मातृभ्यः निर्यातकेभ्यश्च नूतनाः अवसराः उत्पत्स्यन्ते।
जितिन प्रसाद स्वसम्बोधने प्रधानमन्त्रिणो नरेन्द्र मोदिनो दृष्टिकोणस्य अपि उल्लेखं कृतवान्, यस्मिन् गुणवत्तायाः उपरि विशेषध्यानं दत्त्वा भारतं विश्वसनीयवैश्विकविनिर्माणस्रोतकेन्द्ररूपेण प्रतिष्ठापयितुं लक्ष्यं निर्दिष्टम्। तेन उक्तं यत् निर्माणक्षेत्रे भवनसामग्रीक्षेत्रे च स्वस्य उपस्थितिं सुदृढां कर्तुं भारतस्य समीपे आवश्यकाः क्षमताः संसाधनानि च विद्यमानानि सन्ति।
प्रसादेन उक्तं यत् भारत बिल्डकॉन इव मञ्चाः निर्मातृणां, नवप्रवर्तकानां, क्रेतॄणां, नीतिनिर्मातॄणां तथा उद्योगहितधारकाणां मध्ये संवादं सुलभं कुर्वन्ति। एते मञ्चाः अस्मिन् क्षेत्रे अधिकसहयोगस्य व्यावसायिकावसराणां विस्तारस्य च संवर्धने महत्त्वपूर्णं योगदानं ददति।
एषा प्रदर्शनी आगामिदिनेष्वपि प्रवर्तिष्यते तथा उद्योगसहभागितायै, प्रौद्योगिकीप्रदर्शनाय, व्यावसायिकसंवादाय च एकं प्रभावीमञ्चं प्रदास्यति।
मन्त्रालयस्य अनुसारं भारत बिल्डकॉन २०२६ प्रदर्शनीयां ९० अधिकदेशानां तथा भारतस्य १०० अधिकनगराणां सहभागिता अस्ति। अस्यां प्रदर्शनीयां मृद्भाण्डनिर्माणसामग्री, प्रस्तरउद्योगः, हार्डवेयरसामग्री, सिमेण्टम्, इस्पातम्, प्लाइवुडम्, लैमिनेटसामग्री, उपवेशनोपकरणानि, स्वच्छतासामग्री, वैद्युतोपकरणानि, वर्णद्रव्याणि, निर्माणप्रौद्योगिकी तथा अन्यसम्बद्धक्षेत्राणि सहितं २४ विभागेषु उत्पादानां, प्रौद्योगिकीनां, नवप्रवर्तनानां च प्रदर्शनं क्रियते।
उल्लेखनीयम् अस्ति यत् एषा प्रदर्शनी भारतस्य विविधप्रदेशेभ्यः विदेशेभ्यश्च आगतान् वास्तुविदः, निर्माणकर्तारः, विकासकर्तारः, प्रतिनिधयः, उत्पादकाः, व्यापारीणः, नीतिनिर्मातारः, उद्योगसङ्घाः तथा अन्ताराष्ट्रियक्रेतॄन् एकत्र आनयति। अनेन उद्योगक्षेत्रस्य अन्तर्गतं संवादस्य व्यावसायिकसहयोगस्य च कृते एकः सुदृढः मञ्चः उपलब्धो भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani