लोकसभा-अध्यक्षः ओम बिरला रायपुरम् आगतः
रायपुरनगम्, १८ जूनमास: (हि.स.)। लोकसभायाः अध्यक्षः ओम् बिरला अद्य रायपुरम् आगतः। माना-विमानस्थानके सांसदः बृजमोहन-अग्रवालः तस्य हार्दिकं स्वागतं कृतवान्। ततः बिरलामहोदयः विमानस्थानकात् प्रत्यक्षमेव लोकभवनम् अगच्छत्। अनन्तरं सः बलबीर-जुनेजा-आन्तरिक
रायपुर के माना एयरपोर्ट पर लोकसभा अध्यक्ष ओम बिरला


रायपुरनगम्, १८ जूनमास: (हि.स.)। लोकसभायाः अध्यक्षः ओम् बिरला अद्य रायपुरम् आगतः। माना-विमानस्थानके सांसदः बृजमोहन-अग्रवालः तस्य हार्दिकं स्वागतं कृतवान्। ततः बिरलामहोदयः विमानस्थानकात् प्रत्यक्षमेव लोकभवनम् अगच्छत्।

अनन्तरं सः बलबीर-जुनेजा-आन्तरिक-क्रीडाङ्गणम् अगच्छत्, यत्र सः आचार्य-पदारोहण-कार्यक्रमे सहभागं करोति। तदनन्तरं मध्याह्ने द्वादशवादने सः पुनः लोकभवनम् आगमिष्यति। तत्र सः छत्तीसगढ़-राज्यस्य राज्यपालेन रमण-डेकेन सह शिष्टाचारसाक्षात्कारं करिष्यति।

तदनन्तरम् ओम् बिरला रायपुरस्य शान्तिनगर-क्षेत्रस्य भ्रमणं करिष्यति। तत्र स्थानीय-संस्थाभिः आयोजितेषु विविधेषु सामाजिक-कार्यक्रमेषु सः सहभागं करिष्यति।

Hindusthan Samachar / Divya Ranjan