Enter your Email Address to subscribe to our newsletters

१९ जूनमास: विश्व-इतिहासे विशेषं महत्त्वं वहति। एषा तिथिः भारतस्य म्यांमारदेशस्य च द्वयोः प्रमुखयोः राजनैतिक-नेतृभ्यां—राहुलगान्धी-महोदयस्य तथा आङ् सान सू ची इत्यस्याः—जन्मदिवसरूपेण अभिलेखितः अस्ति। उभौ अपि प्रभावशालिषु राजनैतिक-कुलेषु जातौ, किन्तु तयोः जीवनस्य सार्वजनिक-भूमिकायाश्च दिशाः परस्परं भिन्नाः अभवन्।
भारतीय-राष्ट्रीय-काङ्ग्रेस-दलस्य वरिष्ठ-नेता लोकसभायां विपक्ष-नेता च राहुलगान्धी-महोदयस्य जन्म १९ जून १९७० तमे वर्षे नूतन-दिल्ली-नगरे अभवत्। सः भारतस्य पूर्वप्रधानमन्त्रिणः राजीवगान्धी-महोदयस्य तथा पूर्व-काङ्ग्रेस-अध्यक्षा सोनियागान्धी-महोदयायाः पुत्रः अस्ति। गतयोः द्वयोः दशकयोः सः भारतीय-राजनीतौ सक्रियां भूमिकां निर्वहति तथा काङ्ग्रेस-दलस्य प्रमुखेषु मुखेषु परिगण्यते।
म्यांमारदेशस्य लोकतन्त्र-समर्थिका नेतृ आङ् सान सू ची इत्यस्याः जन्म १९ जून १९४५ तमे वर्षे अभवत्। सा म्यांमारदेशस्य राष्ट्रनायकस्य आङ् सान इत्यस्य दुहिता आसीत्, यस्य १९४७ तमे वर्षे हत्या अभवत्। स्वदेशे लोकतन्त्रस्य स्थापनार्थं सैनिक-शासनस्य विरोधाय च तया दीर्घकालं सङ्घर्षः कृतः। अस्मात् कारणात् सा बहूनि वर्षाणि यावत् गृह-निग्रहेऽपि स्थापिता आसीत्।
लोकतन्त्रस्य, मानवाधिकाराणां तथा अहिंसक-राजनैतिक-सङ्घर्षस्य समर्थनार्थं तस्यै अन्ताराष्ट्रिय-स्तरे अनेकानि सम्मानानि प्रदत्तानि। १९९० तमे वर्षे राफ्तो-पुरस्कारः, यूरोपीय-संसदः प्रदत्तः सखारोव-पुरस्कारः, १९९१ तमे वर्षे नोबेल-शान्ति-पुरस्कारः तथा १९९२ तमे वर्षे भारत-सर्वकारस्य जवाहरलाल-नेहरू-अन्ताराष्ट्रिय-समझ-पुरस्कारः तस्यै समर्पिताः।
महत्त्वपूर्णाः घटनाः
१२६९ तमे वर्षे—फ्रान्सदेशस्य राजा लुई सर्वेभ्यः यहूदीभ्यः विशेष-चिह्नधारणस्य आदेशम् अददात्।१७१६ तमे वर्षे—प्रसिद्धः सिक्ख-वीरः बन्दासिंहबहादुरः मुगल-सम्राटः फर्रुखसियरस्य आदेशेन यातनाभिः हतः।१८४३ तमे वर्षे—दास-कापिटल-ग्रन्थस्य लेखकः समाजचिन्तकः कार्लमार्क्स: विवाहम् अकरोत्।१९१० तमे वर्षे—वाशिङ्गटन-नगरे प्रथमवारं पितृ-दिवसः आचरितः।१९४८ तमे वर्षे—सोवियत-सङ्घेन पश्चिम-बर्लिन-नगरं प्रति गच्छन्त्यः मार्गाः निरुद्धाः।१९६८ तमे वर्षे—मार्टिनलूथरकिङ्ग-इत्यस्य नेतृत्वे आर्थिक-न्यायार्थं पञ्चाशत्-सहस्राधिकैः जनैः प्रदर्शनम् आयोजितम्।१९८१ तमे वर्षे—भारतेन स्वस्य भूस्थिर-उपग्रहः ‘एप्पल’ सफलतया प्रक्षिप्तः।१९९१ तमे वर्षे—सोवियत-सङ्घेन हङ्गरीदेशः स्वाधीनः कृतः।१९९६ तमे वर्षे—बौद्धिक-सम्पदा-अधिकार-विषये चीन-अमेरिकादेशयोः मध्ये सन्धि: सम्पन्नः।१९९६ तमे वर्षे—प्रसिद्धः अम्पायरः डिकी बर्ड एम.सी.सी.-संस्थायाः आजीवन-सदस्यतया सम्मानितः।१९९९ तमे वर्षे—जर्मनीदेशस्य कोलोन-नगरे समूह-८-शिखर-सम्मेलनम् आरब्धम्।२००२ तमे वर्षे—पाकिस्तानदेशस्य विदेश-सचिवः इनामुलहक: विदेशमन्त्री नियुक्तः।२००३ तमे वर्षे—फिनलैण्डदेशस्य प्रथमा महिला-प्रधानमन्त्री एनेली जाट्टिनमाकी स्वपदात् त्यागपत्रम् अददात्।२००५ तमे वर्षे—फोर्ब्स पत्रिकया ओप्रा विन्फ्रे विश्वस्य शतं प्रभावशालीनां व्यक्तीनां मध्ये प्रथमस्थाने स्थापिताः।२००६ तमे वर्षे—जापानेन उत्तरकोरियादेशः परमाणु-परीक्षण-विषये चेतितः।२००७ तमे वर्षे—पाकिस्तानस्य राष्ट्रपतिः परवेजमुशर्रफः सूचनामन्त्री मोहम्मद-अली-दुर्रानीं पदात् अपासारयत्।२००७ तमे वर्षे—राजनैतिक-अस्थिर-देशानां सूच्यां पाकिस्तानदेशः द्वादशं स्थानम् अलभत।२००८ तमे वर्षे—उत्तराखण्ड-सर्वकारेण गङ्गानद्यां निर्माणाधीने पाला-मनेरी तथा भैरोंधारी जलविद्युत्-परियोजनयोः कार्यं स्थगितम्।२००८ तमे वर्षे—गाजा-प्रदेशे हिंसां निरोद्धुं इस्रायल-हमास-सङ्घटनयोः मध्ये युद्धविरामः प्रवृत्तः।
जन्म
१८७१ तमे वर्षे—माधवराव सप्रेः, राष्ट्रभाषा-हिन्द्याः उन्नायकः, प्रखर-चिन्तकः, स्वतन्त्रता-सङ्ग्राम-सेनानी च।१९३१ तमे वर्षे—सुदर्शन-अग्रवालः, उत्तराखण्ड-सिक्किम-राज्ययोः पूर्व-राज्यपालः।१९४७ तमे वर्षे—प्रसिद्धः ब्रिटिश-भारतीय-लेखकः उपन्यासकारश्च सलमान रश्दी।१९४८ तमे वर्षे—ओकरम इबोबी सिंहः, मणिपुर-राज्यस्य पूर्व-मुख्यमन्त्री।
निधनम्
१९८१ तमे वर्षे—सुभाषमुखोपाध्यायः, भारतस्य प्रथम-टेस्ट-ट्यूब-शिशोः जनकः चिकित्सकः वैज्ञानिकश्च।२०१८ तमे वर्षे—नेरेला वेणुमाधवः, भारतीयः मिमिक्री-कलाकारः।२०२१ तमे वर्षे—गुरुप्रसादमहापात्रः, भारतीयः आई.ए.एस.-अधिकारी।
महत्त्वपूर्णः अवसरः
विश्व-एथनिक-दिवसः।
Hindusthan Samachar / Dheeraj Maithani