Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १८ जूनमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः वीराङ्गनाया: रानीलक्ष्मीबाय्याः बलिदानदिवसे तस्यै श्रद्धाञ्जलिम् अर्पयन् तस्याः अदम्यसाहसं, नेतृत्वगुणं राष्ट्रभक्तिं च प्रणतवान्।
सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे प्रधानः उक्तवान् यत् रानीलक्ष्मीबाई भारतीयेतिहासे वीरतायाः, स्वाभिमानस्य मातृभूमिं प्रति समर्पणस्य च अमरप्रतीका अस्ति। तेन उक्तं यत् राष्ट्रस्य स्वतन्त्रतायाः सम्मानस्य च रक्षणार्थं रानीलक्ष्मीबाय्याः यद् अद्वितीयं साहसं पराक्रमश्च प्रदर्शितः, सः भारतीयेतिहासस्य स्वर्णिमः अध्यायः अस्ति।
केन्द्रीयमन्त्री अवदत् यत् अन्यायस्य दमनस्य च विरुद्धं रानीलक्ष्मीबाय्याः सङ्घर्षः अद्यापि देशवासिनः, विशेषतः युववंशं, राष्ट्रप्रेम्णा, साहसेन आत्मसम्मानेन च अग्रे गन्तुं प्रेरयति।
प्रधानः अवदत् यत् रानीलक्ष्मीबाय्याः बलिदानम्, तस्याः वीरगाथा च अग्रिमवंश: सदैव राष्ट्रहिताय समर्पित: भवितुम् प्रेरयिष्यतः।
Hindusthan Samachar / Divya Ranjan