Enter your Email Address to subscribe to our newsletters

मेदिनीपुरम्, १८ जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्यस्य दीघा-नगरे स्थितं जगन्नाथ-मन्दिरम् अधिकृत्य विवादः निरन्तरं वर्धते। मन्दिरस्य नाम्नः ‘धाम’-शब्दस्य निष्कासन-विवादानन्तरम् अधुना पुरी-जगन्नाथ-मन्दिर-प्रशासनेन नूतना आपत्तिः अभिलेखिता।
पुरी-जगन्नाथ-मन्दिरस्य सेवायतैः अधिकारिभिश्च आग्रहः कृतः यत् दीघा-मन्दिरे स्थापिताः शिलामय-प्रतिमाः अपसार्य तासां स्थाने दारुनिर्मिताः दारुब्रह्म-प्रतिमाः स्थापनीयाः। तेषां मतानुसारं भगवत: जगन्नाथस्य पूजा विश्वस्य कुत्रापि क्रियमाणा भवतु, सा पुरी-जगन्नाथ-मन्दिरस्य पारम्परिक-रीति-नीत्यानुसारमेव भवेत्।
ज्ञायते यत् पूर्ववर्तिन्या ममता-बैनर्जी-सर्वकारेण निर्मितस्य जगन्नाथ-मन्दिरस्य नाम्नः सह ‘धाम’ इति शब्दः योजितः आसीत्, यस्मिन् विषये ओडिशा-सर्वकारेण पुरी-जगन्नाथ-मन्दिर-प्रशासनेन च आपत्तिः प्रकटिता। अर्वाचीनकाले राज्यस्य नवगठितेन भाजप-सर्वकारेण मन्दिरस्य नाम्नः ‘धाम’-शब्दस्य निष्कासनस्य घोषणा कृता।
अधुना पुरी-जगन्नाथ-मन्दिरस्य सेवायताः वदन्ति यत् शास्त्रानुसारं भगवानः जगन्नाथस्य प्रतिमा शिलामयी न, अपितु दारुनिर्मितैव भवितव्या। अनेन परम्परा धार्मिक-पवित्रता च संरक्ष्येते। तेषां मते यदि रथयात्रा आयोज्यते, तर्हि तस्मिन् केवलं दारुनिर्मिता प्रतिमैव स्थापनीया।
तथापि पुरी-जगन्नाथ-मन्दिरस्य मुख्य-सेवायतः स्वेन-महापात्रः उक्तवान् यत् मन्दिरान्तः शिलामयी-प्रतिमायाः पूजायां काचिदपि आपत्तिः नास्ति, किन्तु तादृशी प्रतिमा रथे न स्थापयितुं शक्यते।
अन्यतः बुधवासरस्य सायंकाले दीघा-मन्दिरस्य सेवायतः गौरहरि-प्रधानः अपि उक्तवान् यत् पारम्परिक-रीत्या भगवत: जगन्नाथस्य प्रतिमा दारुनिर्मितैव भवति तथा पुरी-जगन्नाथ-मन्दिरस्य परम्परायाः पालनम् अन्येष्वपि जगन्नाथ-मन्दिरेषु भवितुमर्हति।
Hindusthan Samachar / Divya Ranjan