Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 जूनमासः (हि.स.)।
केन्द्रीयसड़कपरिवहनएवंराजमार्गमन्त्री नितिनगडकरी सहित अनेके नेतारः गुरुवासरे राष्ट्रियस्वयंसेवकसंघस्य पञ्चमस्य सरसंघचालकस्य केएससुदर्शनस्य जयन्त्यां झाँसीनगरस्य वीराङ्गनायाः रानीलक्ष्मीबायाः बलिदानदिवसे च ताभ्यां भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः।
गडकरी महोदयः एक्स माध्यमे उक्तवान्, ‘‘संघस्य पञ्चमस्य सरसंघचालकस्य केएससुदर्शनस्य जयन्त्यां तस्मै विनम्रमभिवादनम्। अदम्यसाहसस्य शौर्यस्य देशभक्तेः च प्रतिमूर्तिः वीराङ्गना रानीलक्ष्मीबाई, तस्याः बलिदानदिवसे कोटिशः नमनम्। मातृभूमेः रक्षणार्थं स्वप्राणान् समर्पयन्त्याः झाँसीसाम्राज्यस्य लक्ष्मीबायाः बलिदानं सर्वदा स्मरणीयं भविष्यति।’’
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंहः उक्तवान् यत् राष्ट्रनिर्माणे समाजसेवायां च तस्य समर्पितं जीवनम् अस्माकं सर्वेषां कृते सदा प्रेरणास्रोतः भविष्यति।
केन्द्रीयकृषिएवंकिसानकल्याणमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् सुदर्शनमहाभागस्य ग्रामविकासे कृषौ गोपालने ऊर्जाक्षेत्रे च देशजपरम्परागतानुभवानां सूचनानां च विषये विशेषा रुचिः आसीत्। भवता समाजाय न केवलं सम्यक् दिशा प्रदर्शिता, अपितु कस्यापि समस्यायाः गम्भीरतां सम्यक् अवगत्य तस्याः विषये मूलगामिचिन्तनं कृत्वा समुचितसमाधानमपि अन्विष्टम्।
केन्द्रीयसामाजिकन्यायअधिकारितामन्त्री डा वीरेन्द्रकुमारः उक्तवान् यत् राष्ट्रस्य समाजस्य च निमित्तं समर्पितं सुदर्शनमहाभागस्य प्रेरणादायकं जीवनं भाविसंततेः कृते अपि सदा अनुकरणीयं भविष्यति।
केन्द्रीयउपभोक्तृकार्यखाद्यसार्वजनिकवितरणमन्त्री प्रल्हादजोशी उक्तवान् यत् अदम्यसाहसेन मातृभूमेः रक्षणस्य अखण्डसंकल्पेन च रानीलक्ष्मीबाई भारतस्य प्रतिरोधभावनायाः प्रतीकरूपेण प्रतिष्ठिता अभवत्। तस्याः पुण्यतिथौ वयं झाँसीनगरस्य वीरां रानीलक्ष्मीबाईं श्रद्धाञ्जलिम् अर्पयामः, यस्याः शौर्यं नेतृत्वं परमबलिदानं च भारतीयजनान् प्रेरितवत्। तस्याः अमरा विरासत् राष्ट्रस्य गौरवस्य स्रोतः भूत्वा अद्यापि विराजते।
---------------
Hindusthan Samachar / Dheeraj Maithani