हिमाचलस्य 27महाविद्यालयेषु शुभारप्स्यते जीविकया युतः नूतनःउपाधिपाठ्यक्रमः , पठनेन सह मिलिष्यति प्रशिक्षणम्
शिमला, 18 जूनमासः (हि.स.)। महाविद्यालये अध्ययनस्य सह एव सेवाक्षेत्रस्य अनुभवोऽपि प्राप्स्यते। हिमाचलप्रदेशस्य सहस्रशः छात्राणां कृते अस्मात् शैक्षणिकसत्रात् उच्चशिक्षायाः स्वरूपे किञ्चित् परिवर्तनं भविष्यति। अधुना अनेकेषु महाविद्यालयेषु छात्राः क
हिमाचल सरकार


शिमला, 18 जूनमासः (हि.स.)।

महाविद्यालये अध्ययनस्य सह एव सेवाक्षेत्रस्य अनुभवोऽपि प्राप्स्यते। हिमाचलप्रदेशस्य सहस्रशः छात्राणां कृते अस्मात् शैक्षणिकसत्रात् उच्चशिक्षायाः स्वरूपे किञ्चित् परिवर्तनं भविष्यति। अधुना अनेकेषु महाविद्यालयेषु छात्राः केवलं पुस्तकेषु सीमिताः न भविष्यन्ति, अपितु अध्ययनकाले एव उद्योगक्षेत्रैः सम्बद्धं व्यावहारिकप्रशिक्षणमपि प्राप्स्यन्ति। उच्चशिक्षाविभागेन शैक्षणिकसत्रात् २०२६-२७ प्रभृति प्रदेशस्य २७ राजकीयानुदानप्राप्तमहाविद्यालयेषु एप्रेन्टिसशिपएम्बेडेडडिग्रीप्रोग्राम् (एईडीपी) आरम्भयितुं निर्णयः कृतः।

उच्चशिक्षाविभागस्य निदेशकेन डा हरिशकुमारेण निर्गतानाम् आदेशानाम् अनुसारं बीकॉम् पाठ्यक्रमस्य अन्तर्गतं बहवः रोजगारोन्मुखाः पाठ्यक्रमाः आरभ्यन्ते। एतेषु ईकॉमर्स, लॉजिस्टिक्स, रिटेलऑपरेशनमैनेजमेन्ट्, बैंकिङ्ग्, वित्तीयसेवाः तथा बीमा, मानवसंसाधनसञ्चालनम् इत्यादयः पाठ्यक्रमाः सन्ति। एतेषां पाठ्यक्रमाणां उद्देश्यं केवलं उपाधिप्रदानं नास्ति, अपितु छात्रान् रोजगारबाजारस्य आवश्यकतानुरूपैः कौशलैः अनुभवैः च सुसज्जितान् कर्तुम् अस्ति।

शिमलाजनपदस्य राजकीयमहाविद्यालये चौडामैदाने रिटेलऑपरेशनमैनेजमेन्ट् तथा लॉजिस्टिक्स, राजकीयकन्यामहाविद्यालये शिमलानगरे ईकॉमर्स तथा मानवसंसाधनसञ्चालनम्, राजकीयमहाविद्यालये ठियोगे ईकॉमर्स, राजकीयमहाविद्यालये रामपुरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, तथा राजकीयमहाविद्यालययोः संजौली सरस्वतीनगरे च बैंकिङ्ग् वित्तीयसेवाः तथा बीमा इत्येते पाठ्यक्रमाः आरभ्यन्ते।

हमीरपुरजनपदस्य राजकीयमहाविद्यालये हमीरपुरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, ईकॉमर्स च, राजकीयमहाविद्यालये बरसरे लॉजिस्टिक्स, तथा राजकीयमहाविद्यालये भोरञ्जे रिटेलऑपरेशनमैनेजमेन्ट् इति पाठ्यक्रमः आरभ्यते।

बिलासपुरजनपदस्य राजकीयमहाविद्यालये बिलासपुरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, मानवसंसाधनसञ्चालनम् च, यदा राजकीयमहाविद्यालये घुमारवीं नगरे ईकॉमर्स पाठ्यक्रमः आरभ्यते।

मण्डीजनपदस्य राजकीयमहाविद्यालये मण्डीनगरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, राजकीयमहाविद्यालये सरकाघाटे लॉजिस्टिक्स, राजकीयमहाविद्यालये जोगिन्द्रनगरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, रिटेलऑपरेशनमैनेजमेन्ट् च, तथा राजकीयमहाविद्यालये करसोगे ईकॉमर्स पाठ्यक्रमः आरभ्यते।

सोलनजनपदस्य राजकीयमहाविद्यालययोः अर्की नालागढे च लॉजिस्टिक्स, ऊनाजनपदस्य राजकीयमहाविद्यालये ऊनानगरे रिटेलऑपरेशनमैनेजमेन्ट् तथा लॉजिस्टिक्स, कुल्लूजनपदस्य राजकीयमहाविद्यालये कुल्लूनगरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, तथा सिरमौरजनपदस्य राजकीयमहाविद्यालये नाहने बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, रिटेलऑपरेशनमैनेजमेन्ट् च आरभ्यते।

काङ्गडाजनपदस्य राजकीयमहाविद्यालये इन्दौरे लॉजिस्टिक्स, राजकीयमहाविद्यालये धलियारायां बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, राजकीयमहाविद्यालये नगरोटाबगवां नगरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा, लॉजिस्टिक्स च, राजकीयमहाविद्यालये पालमपुरे रिटेलऑपरेशनमैनेजमेन्ट्, तथा राजकीयमहाविद्यालये धर्मशालायां बैंकिङ्ग वित्तीयसेवाः तथा बीमा, मानवसंसाधनसञ्चालनम् च इत्येते पाठ्यक्रमाः आरभ्यन्ते। चम्बाजनपदस्य राजकीयमहाविद्यालये चम्बानगरे बैंकिङ्ग् वित्तीयसेवाः तथा बीमा पाठ्यक्रमः आरभ्यते। एतदतिरिक्तं शिमलास्थिते सेन्टबेड्समहाविद्यालये अपि वित्तकोषवित्तीयसेवाः तथा बीमा पाठ्यक्रमः आरभ्यते।

उच्चशिक्षाविभागेन सर्वेभ्यः सम्बद्धविश्वविद्यालयेभ्यः महाविद्यालयेभ्यः च आवश्यककार्यवाह्याः कृते निर्देशाः निर्गताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani