Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ जूनमास: (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानं दिल्ली क्यूएस विश्वविद्यालय-वैश्विक-क्रमाङ्कनम् २०२७ इत्यस्मिन् उत्कृष्टं प्रदर्शनं कृत्वा वैश्विकस्तरे ११८तमं स्थानं प्राप्तवती। गतवर्षस्य १२३तमस्थानस्य अपेक्षया अस्मिन् वर्षे संस्थानस्य क्रमाङ्कने उन्नतिः अभवत्। एतेन सह आईआईटी दिल्ली निरन्तरं देशस्य श्रेष्ठतमं शैक्षणिक-अनुसन्धान-संस्थानं वर्तते।
क्यूएस विश्वविद्यालय-वैश्विक-क्रमाङ्कनम् २०२७ इत्यस्य अनुसारम् आईआईटी दिल्ली भारतीयसंस्थानैः अद्यावधि प्राप्तस्य सर्वोच्चस्य वैश्विक-क्रमाङ्कस्य समता अपि प्राप्तवती। अस्य क्रमाङ्कनस्य उन्नतेः पृष्ठतः प्रमुख-प्रदर्शन-सूचकेषु उल्लेखनीया प्रगतिः अभवत्।
नियोक्ता-प्रतिष्ठा इति श्रेण्यां आईआईटी दिल्ली ११ स्थानानि उन्नत्य वैश्विकस्तरे ३९तमं स्थानं प्राप्तवती। एषः सूचकः वैश्विक-नियोजकैः रोजगारार्थं सर्वाधिकं सज्जाः छात्राः कस्मिन् संस्थाने सन्ति इति मूल्याङ्कयति। तथैव रोजगार-परिणामस्य श्रेण्यां संस्थानेन ६० स्थानानाम् उल्लेखनीया उन्नति: प्राप्ता। एषः सूचकः स्नातकानां रोजगार-योग्यता, विविधक्षेत्रेषु तेषां नेतृत्वं प्रभावं च प्रदर्शयति। प्राध्यापक-प्रति-उद्धरणानि इति सूचकेऽपि संस्थानेन २६ स्थानानाम् उन्नति: प्राप्ता। अयं मानदण्डः विश्वविद्यालयेषु सम्पादितस्य वैज्ञानिक-अनुसन्धानस्य गुणवत्तां प्रभावं च मापयति।
अस्याः उपलब्धेः विषये आईआईटी दिल्ली संस्थानस्य योजना-अधिष्ठाता तथा क्रमाङ्कन-प्रकोष्ठस्य प्रमुखः प्रो.सोमनाथवैद्यरायः अवदत् यत् संस्थानं विश्वस्तरीयां सुलभमूल्यां च तकनीकीशिक्षां प्रदातुं तथा वैश्विकशोधार्थिनां प्रियगन्तव्यं भवितुं दृढसंकल्पितम् अस्ति। तेन उक्तं यत् नवीनः पाठ्यक्रमः, आधुनिकम् आधारभूत-संरचनम् तथा वर्धमाना अन्तरराष्ट्रीय-सहभागिता अग्रिमवर्षेषु संस्थानस्य गुणवत्तां प्रभावं च अधिकं सुदृढं करिष्यन्ति। तेन एतदपि प्रतिपादितं यत् क्रमाङ्कनं संस्थानस्य लक्ष्यं नास्ति, अपितु तस्य कार्यस्य परिणामः अस्ति।
अतीतेषु चतुर्षु वर्षेषु आईआईटी दिल्ली स्वस्य वैश्विक-क्रमाङ्कने ७९ स्थानानाम् उन्नतिं प्राप्तवती। वर्षे २०२४ संस्थानं १९७तमे स्थाने आसीत्, यदधुना ११८तमे स्थाने समुपस्थितम् अस्ति। उल्लेखनीयं यत् मार्चमासे २०२६ प्रकाशिते क्यूएस विश्वविद्यालय-विषयाधारित-क्रमाङ्कने आईआईटी दिल्ली संस्थानस्य विद्युत्-अभियांत्रिकी, यन्त्र-अभियांत्रिकी, सङ्गणक-विज्ञानम्, रासायनिक-अभियांत्रिकी तथा नागरिक-अभियांत्रिकी इत्यादयः विषयाः विश्वस्य श्रेष्ठतमेषु पञ्चाशत् विषयेषु स्थानं प्राप्तवन्तः। अभियांत्रिकी-प्रौद्योगिकी-श्रेण्यामपि संस्थानेन वैश्विकस्तरे ३६तमं स्थानं प्राप्य देशस्य अग्रणीस्थानं धृतम्।
Hindusthan Samachar / Divya Ranjan