अमेरिकीराजदूतः सर्जियोगोरः अमितशाहेन सह साक्षात्कारं कृतवान्
नवदेहली, १८ जूनमास: (हि.स.)। भारतस्थितः अमेरिकीराजदूतः सर्जियोगोरः गुरुवासरे नवदेहल्यां केन्द्रीयगृहमन्त्रिणा अमितशाहेन सह अमिलत्। उभाभ्यां भारत-अमेरिकयोः मध्ये सुरक्षासहकार्यं अधिकं सुदृढं कर्तुं विविधविषयेषु विस्तृतः विचारविमर्शः कृतः। केन्द्रीय
भारत में अमेरिका के राजदूत सर्जियो गोर गुरुवार को केंद्रीय गृह मंत्री अमित शाह से नई दिल्ली में मुलाकात करते हुए


नवदेहली, १८ जूनमास: (हि.स.)। भारतस्थितः अमेरिकीराजदूतः सर्जियोगोरः गुरुवासरे नवदेहल्यां केन्द्रीयगृहमन्त्रिणा अमितशाहेन सह अमिलत्। उभाभ्यां भारत-अमेरिकयोः मध्ये सुरक्षासहकार्यं अधिकं सुदृढं कर्तुं विविधविषयेषु विस्तृतः विचारविमर्शः कृतः।

केन्द्रीयगृहमन्त्री अमितशाहः सामाजिक-माध्यममञ्चे ‘एक्स’ इति प्रकाशितवन् यत् सर्जियोगोरेण सह विशेषतः आतङ्कवाद-विरोधीकार्येषु तथा मादकद्रव्यतस्करी-निरोधे भारत-अमेरिकयोः सहकार्यं अधिकं सुदृढं कर्तुं विस्तरेण विचारविमर्शः अभवत्।

शाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतदेश: भारत-अमेरिकयोः व्यापकवैश्विक-सामरिक-सहभागिताम् अग्रे नेतुं दृढसंकल्पित: अस्ति। तेन विश्वासः व्यक्त: यत् उभयदेशयोः वर्धमानयोः द्विपक्षीयसम्बन्धयोः लाभः भारतस्य अमेरिकायाश्च नागरिकेभ्यः भविष्यति।

Hindusthan Samachar / Divya Ranjan