Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १८ जूनमासः (हि.स.)। छत्तीसगढ-राज्यस्य राजधानी रायपुरम् अद्य गुरुवासरे जैन-समाजस्य ऐतिहासिकस्य गौरवपूर्णस्य च महोत्सवस्य साक्षी भविष्यति। बलबीरसिंह-जुनेजा-इण्डोर-स्टेडियम-परिसरे आयोजिते आचार्य-पदारोहण-महोत्सवे लोकसभाध्यक्षः ओम्-बिडला, राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः तथा विधानसभाध्यक्षः डॉ.रमणसिंहः सहभागिनः भविष्यन्ति।
लोकसभाध्यक्षः ओम्-बिडला एकदिवसीय-प्रवासार्थं रायपुरम् आगमिष्यति। निर्धारित-कार्यक्रमानुसारं सः बलबीरसिंह-जुनेजा-इण्डोर-स्टेडियम-परिसरे आयोजिते समारोहे सहभागितां करिष्यति। कार्यक्रमानन्तरं सः लोकभवनं गमिष्यति तथा सायं चतुर्वादने शान्तिनगरे आयोजिते स्थानीय-कार्यक्रमे सहभागित्वा ततः नवदेहलीं प्रति प्रस्थितः भविष्यति।
उल्लेखनीयं यत् प्रायः एकसप्तति-वर्षाणां दीर्घान्तरालानन्तरं जैन-समाजस्य पूज्यः विनयकुशल-मुनिः म.सा.आचार्य-पदेन विभूषितः भविष्यति। अस्मिन् शुभावसरे नगरस्य इण्डोर-स्टेडियम-परिसरे भव्यस्य आचार्य-पदारोहण-महोत्सवस्य आयोजनं कृतम् अस्ति, यस्मिन् देशस्य राज्यस्य च अनेके प्रमुख-व्यक्तयः सहभागिनः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan