Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 18 जूनमासः (हि.स)।केन्द्रीय उपभोक्तृविषयककार्याणि, खाद्यसार्वजनिकवितरणविभागस्य मन्त्री प्रह्लाद जोशी गुरुवासरे धान्यभण्डारणार्थं स्मार्टवेयरहाउसिङ्गप्रणालीम् उद्घाटितवान्। उपभोक्तृविषयककार्याणि, खाद्यसार्वजनिकवितरणमन्त्रालयेन निर्गते विज्ञप्तिपत्रे उक्तं यत् राष्ट्रस्य धान्यभण्डारणव्यवस्थायाः आधुनिकीकरणस्य दिशि महत्त्वपूर्णं पदं स्वीकृत्य केन्द्रीयखाद्यमन्त्रिणा नवीदिल्लीस्थिते भारतमण्डपमे आयोजिते समारोहकाले धान्यभण्डारणार्थं “स्मार्टवेयरहाउसिङ्गप्रणाली” उद्घाटिता अस्ति।
उपभोक्तृविषयककार्याणि, खाद्यसार्वजनिकवितरणमन्त्रालयस्य खाद्यसार्वजनिकवितरणविभागेन सार्वजनिकक्षेत्रस्य केन्द्रीयवेयरहाउसिङ्गनिगमस्य २१६ धान्यभण्डारणगोदामेषु भण्डारसामग्रीणां कार्यप्रवाहस्य च वास्तविकसमये निरीक्षणार्थम् एषा स्मार्टवेयरहाउसिङ्गप्रणाली प्रवर्तिता अस्ति।
अस्यां प्रणाल्यां कृत्रिमबुद्ध्या इत्याद्याधुनिकप्रविधीनां उपयोगः कृतः अस्ति। एषा प्रणाली सार्वजनिकक्षेत्रे धान्यभण्डारणार्थं कृत्रिमबुद्ध्या तथा वस्तूनाम् अन्तर्जालप्रविध्या आधारितास्ति। एतेषां प्रविधीनां वैश्विकस्तरे व्यापकः उपयोगः क्रियते। मन्त्रालयेन उक्तं यत् अस्याः प्रविध्याधारितप्रणाल्याः माध्यमेन कार्यसञ्चालनक्षमतायां महत्त्वपूर्णः सुधारः अपेक्षितः अस्ति। अनेन वाहनानां परिभ्रमणकालः न्यूनः भविष्यति, पारदर्शिता वर्धिष्यते, नियमानुपालनस्य निरीक्षणं सुदृढं भविष्यति, मानवसंसाधनस्य उत्पादकता उन्नता भविष्यति, जोखिमानां शीघ्रपरिचयः सम्भविष्यति तथा च वेयरहाउसकार्यप्रणालीनां वास्तविकसमयसम्बद्धा सूचना उपलब्धा भविष्यति।
---------------------
Hindusthan Samachar / Dheeraj Maithani