Enter your Email Address to subscribe to our newsletters

धर्मशालानगरम्, १८ जूनमासः (हि.स.)। मुख्यमंत्री सुखविंदर-सिंह-सुक्खू काङ्गडा-प्रदेशे द्विदिवसीयप्रवासस्य द्वितीये दिने धर्मशालानगरे १५.२८ कोटि-रूप्यकव्ययेन निर्मीयमाणस्य ५०-शय्यायुक्तस्य एकीकृत-आयुष-चिकित्सालयस्य शिलान्यासं कृतवान्।
अस्मिन्नवसरे तेन उक्तं यत् प्रदेशसर्वकारः स्वास्थ्य-शिक्षा-पर्यटनक्षेत्रेषु बृहदाकारं निवेशं कुर्वन् अस्ति। काङ्गडा-प्रदेशं हिमाचलप्रदेशस्य पर्यटनराजधानीरूपेण विकसितुं विविधाः महत्त्वाकाङ्क्षिण्यः परियोजनाः द्रुतगत्या क्रियन्ते।
मुख्यमन्त्री अवदत् यत् धर्मशालानगरे काङ्ग्रेसपक्षस्य विधायकः नास्ति तथापि विकासकार्येषु किमपि न्यूनता न कृताऽस्ति। क्षेत्रीय-सन्तुलनं दृष्ट्वा कतिपयाः प्रमुखाः प्रशासनिक-कार्यालयाः शिमलानगरतः धर्मशालां स्थानान्तरिताः, येन जनाः स्थानीयस्तरे एव प्रशासनिकसेवाः प्राप्तुं शक्नुवन्ति।
सः अवदत् यत् विंशतिवर्षाणि यावत् प्रलम्बिता काङ्गडा-विमानस्थानक-विस्तार-परियोजना अधुना वेगं प्राप्तवती अस्ति। अस्याः परियोजनायाः कारणेन प्रभावितपरिवाराणां पुनर्वासाय प्रायः २५०० कोटि-रूप्यकाणि विनियोजितानि सन्ति। विमानस्थानक-विस्तारानन्तरं बृहद्विमानानां सञ्चारः सम्भविष्यति, येन विदेशसम्पर्कः वर्धिष्यते तथा पर्यटन-रोजगारयोः नूतनाः अवसराः सृज्यन्ते।
तथा च मुख्यमन्त्री उक्तवान् यत् प्रदेशे कनेक्टिविटी-सुदृढीकरणाय हेलिपोर्ट-जालस्य विकासः क्रियते। पालमपुर-हेलिपोर्ट प्रायः पूर्णतां प्राप्तवती अस्ति। धर्मशाला-पालमपुर-नगरयोः चण्डीगढेन सह वायु-टैक्सीसेवया संयोजनाय अपि कार्यं प्रचलति।
होटल-उद्योगस्य होमस्टे-व्यवस्थायाश्च प्रोत्साहनं विषये सः अवदत् यत् धर्मशालायां आयोजितेषु अन्ताराष्ट्रिय-क्रिकेट-स्पर्धासु तथा आईपीएल-स्पर्धासु आरक्षक-सुरक्षायाः कृते शुल्कं न गृह्यते, येन पर्यटन-होटल-उद्योगः सुदृढः भवेत्। होमस्टे-संचालकानां कृते च चतुर्प्रतिशत-ब्याज-दरयुक्ता ऋण-व्यवस्था अपि प्रदीयते।
Hindusthan Samachar / Divya Ranjan