Enter your Email Address to subscribe to our newsletters



बैतूलनगरम्, १८ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु: उक्तवती यत् विकासः संस्कृतिश्च, उभयोः सम्यक्सन्तुलनमेव सशक्तस्य समृद्धस्य च समाजस्य आधारः अस्ति। सा अवदत् यत् सार्थकः विकासः स एव भवति यः अस्माकं मूलपरम्पराभ्यः जीवनमूल्येभ्यश्च पोषणं गृह्णाति, तानि च अधिकानि दृढानि करोति।
राष्ट्रपतिः गुरुवासरे मध्यप्रदेशस्य बैतूलनगरे प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयेन आयोजिते ‘आध्यात्मिक-जागृत्या जनजातीय-समाजस्य सशक्तीकरणम्’ इति महासम्मेलने सम्बोधनम् अकरोत्। तया उक्तं यत् उपभोगप्रधानायां अद्यतनायां शीघ्रगतियुक्तायां विश्वव्यवस्थायां समाजस्य सर्वेषां वर्गाणाम् आध्यात्मिकी शुचिताऽतीव महत्त्वपूर्णा जाता। अस्याः आधारेण एव दीर्घकालिकरूपेण समतामूलिका आचरणपद्धतिः प्राकृतिकसम्पदां प्रति संवेदनशीला जीवनशैलीं च विकसितुं शक्यते।
राष्ट्रपतिः अवदत् यत् समाजस्य वास्तविकं सशक्तीकरणं तदैव भवति यदा व्यक्तिः आत्मविश्वासेन, आत्मसम्मानेन जागरूकतया च प्रेरितः सामाजिककर्तव्यबोधेन सह स्वकार्यक्षेत्रे सक्रियः भवति। यदा अध्यात्मस्य सेवायाश्च सङ्गमः भवति तदा समाजे स्थायी परिवर्तनम् आयाति।
कार्यक्रमस्थलं समागत्य राष्ट्रपतिः प्रथमं पादपारोपणम् अकरोत्। ततः अनन्तरं विभिन्नविभागैः आयोजितप्रदर्शिन्याः सूक्ष्मतया अवलोकनम् अकरोत्। लालबहादुरशास्त्री-क्रीडाङ्गणे मुख्यकार्यक्रमस्य आरम्भः राष्ट्रगीतेन राष्ट्रगानेन च अभवत्। तदनन्तरं राष्ट्रपतिः दीपप्रज्वलनेन महासम्मेलनस्य विधिवत् शुभारम्भम् अकरोत्। मञ्चे स्मृतिचिह्नं समर्प्य तस्याः सम्मानम् अपि कृतम्। अस्मिन् अवसरे कलाकारैः मनोहराः सांस्कृतिकप्रस्तुतयः अपि प्रदर्शिताः, ततः महासम्मेलनस्य औपचारिकारम्भः अभवत्।
अस्य महासम्मेलनस्य अध्यक्षतां मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेलः अकरोत्। मञ्चे केन्द्रीयराज्यमन्त्री दुर्गादास उईके, प्रदेशस्य राज्यमन्त्री नरेन्द्रशिवाजीपटेलः, संस्थायाः ओडिशा-प्रभारी डॉ.नथमलः च उपस्थिताः आसन्। माउण्ट् आबूतः आगते लीना-भगिनी, शैलजा-भगिनी तथा अन्ये विशिष्टाः अतिथयः अपि कार्यक्रमे स्वगरिमामयीम् उपस्थितिं न्यवेदयन्।
स्वसम्बोधनस्य समापनानन्तरं राष्ट्रपतिः कडकसुरक्षाव्यवस्थायाः मध्ये खण्डवा-मण्डलस्य ओंकारेश्वरं प्रति प्रस्थितवती, यत्र विश्रामानन्तरं सायंकाले ओंकारेश्वर-ममलेश्वर-ज्योतिर्लिङ्गस्य दर्शनं करिष्यति तथा सन्ध्यारार्तिक्याम् अपि सहभागिनी भविष्यति।
Hindusthan Samachar / Divya Ranjan