Enter your Email Address to subscribe to our newsletters


खण्डवानगरम्, १८ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः अद्य मध्यप्रदेशराज्यस्य पञ्चदिवसीय-प्रवासाय आगच्छति। सा स्वप्रवासस्य प्रथम-दिने बैतूल-नगरे “आध्यात्मिक-जागृत्या जनजातीय-समाजस्य सशक्तीकरणम्” इति महासम्मेलने भागं ग्रहीष्यति। ततः परं सा खण्डवा-जनपदस्य ओंकारेश्वर-ज्योतिर्लिंग-क्षेत्रं गत्वा ओंकारेश्वर-ममलेश्वर-ज्योतिर्लिङ्ग-मन्दिरे दर्शनं कृत्वा सायं-आरार्तिक्यां च सहभागी भविष्यति।
निर्धारित-कार्यक्रमानुसारं राष्ट्रपतिः द्रौपदीमुर्मुः विशेष-विमानेन अद्य प्रातः ९:२५ वादने इन्दौर-विमानपत्तनम् आगमिष्यति, ततः सा हेलिकॉप्टर-यानेन बैतूल-नगरं प्रति प्रस्थानं करिष्यति। सा प्रातः १०:५० वादने बैतूल-नगरं प्राप्स्यति। तत्र स्वागतस्य अनन्तरं सा कार्यक्रम-स्थले लालबहादुरशास्त्री-क्रीडाङ्गणे वृक्षारोपणं करिष्यति, ततः ब्रह्मकुमारीणां वरिष्ठ-सदस्यै: सह चित्रग्रहण-कार्यक्रमे भागं ग्रहीष्यति। ततः विभागानां प्रदर्शिन्याः अवलोकनं करिष्यति।
मुख्य-कार्यक्रमे राष्ट्रगीत-राष्ट्रगानयोः अनन्तरं दीप-प्रज्वलनं भविष्यति। तत्र उपस्थितैः सर्वैः सदस्यैः राष्ट्रपतिः शालया, स्मृति-चिह्नेन तथा पादपेन सम्मानिता भविष्यति। राजयोगिनी बीके मञ्जु-दीदी इत्यनया स्वागत-भाषणं प्रदत्ते सति सांस्कृतिक-कार्यक्रमाः प्रस्तूयन्ते।
राष्ट्रपतिः कलशेन ध्वजेन च महासम्मेलनस्य उद्घाटनं करिष्यति। ततः क्रमशः जोनल-संचालिका राजयोगिनी बीके शैलजा-दीदी, केन्द्रीय-राज्यमन्त्री दुर्गादास-उईके, राज्यपालः मंगुभाईपटेलः च भाषणं करिष्यन्ति। तदनन्तरं राष्ट्रपतिः स्वीयं उद्बोधनं दास्यति। ततः राष्ट्रगीत-राष्ट्रगानयोः अनन्तरं सा मिलनपुर-टोल-नाका-हेलिपदं प्रति प्रस्थानं करिष्यति, तत: सा १२:४५ वादने ओंकारेश्वरं प्रति गमिष्यति।
खण्डवा-जिला-प्रशासनानुसारं सा अपराह्णे १:३० वादने ओंकारेश्वरं प्राप्स्यति तथा एनएचडीसी-आतिथिगृहे विश्रामं करिष्यति। सायं ६:२० वादने सा ओंकारेश्वर ज्योतिर्लिंग तथा ममलेश्वर-मन्दिरे दर्शनं कृत्वा आरार्तिक्यां च सहभागी भविष्यति। तत्र रात्रौ अपि तस्याः विश्रामः एनएचडीसी-आतिथिगृहे भविष्यति।
अनन्तरदिने १९ जूनमासे सा प्रातः १० वादने अन्ताराष्ट्रिय-सिकल-सेल-दिवसस्य कार्यक्रमे मुख्यातिथिरूपेण भागं ग्रहीष्यति। ततः ११:३० वादने ओंकारेश्वर-हेलिपदात् इन्दौरं प्रति प्रस्थानं करिष्यति। इन्दौर-जनपद-प्रशासनानुसारं सा १२:१५ वादने इन्दौर-विमानपत्तनं प्राप्य १२:२५ वादने पश्चिम-बङ्गालस्य कलाईकुण्ड-विमानपत्तनं प्रति गमिष्यति।
ततः २० जूनमासे सायं ६:१० वादने सा जबलपुर-विमानपत्तनं आगमिष्यति, सर्किट-हाउस-गृहं च गमिष्यति। तत्र रात्रिवासं करिष्यति। २१ जूनमासे प्रातः सा अन्तर्राष्ट्रीय-योगदिवस-कार्यक्रमे भागं ग्रहीष्यति तथा रानी-दुर्गावती-विश्वविद्यालयस्य ३६तम-सम्मेलन-समारोहस्य मुख्यातिथिः भविष्यति। ततः सा ग्वालियरनगरं गत्वा कूनो-राष्ट्रीय-उद्यानं प्रति प्रस्थानं करिष्यति। सा तत्र रात्रिवासं करिष्यति तथा २२ जूनमासे प्रातः कूनो-उद्यानं भ्रमणं करिष्यति। अनन्तरं सा दिल्लीं प्रति प्रस्थानं करिष्यति।
सर्वेषु कार्यक्रमेषु प्रशासनं दृढा सुरक्षा-व्यवस्था कृतवती, सम्पूर्णे क्षेत्रे “नो-ड्रोन-क्षेत्रम्” इति आदेशः अपि प्रसारितः अस्ति।
Hindusthan Samachar / Dheeraj Maithani