Enter your Email Address to subscribe to our newsletters

किसान-उत्सवदिवसस्य अवसरे 9.5 कोटिसंख्यककृषकेभ्यो 18,800 कोटिरुप्यकाणां राशिर्भविष्यति कोषेऽन्तरितः, मध्यप्रदेशस्य 81.67 लक्षङ्कृषकाःभविष्यन्ति लाभान्विताः
भोपालम्, 18 जूनमासः (हि.स.)।
प्रधानमन्त्री किसानसम्माननिधियोजनायाः त्रयोविंशतितमा किस्तिः २० जून दिनाङ्के प्रदास्यते। प्रधानमन्त्री नरेन्द्र मोदी पश्चिमबङ्गप्रदेशस्य हुगलीजनपदस्थितात् तारकेश्वरात् आयोजिते कार्यक्रमे देशस्य प्रायः ९.५ कोटि कृषकाणां खातेषु १८,८०० कोटिरूप्यकाधिकां धनराशिं प्रत्यक्षलाभहस्तान्तरणमाध्यमेन प्रेषयिष्यति। एषा सूचना केन्द्रीयकृषिकृषककल्याणमन्त्री शिवराज सिंह चौहानेन गुरुवासरे भोपालनगरे स्वनिवासे आयोजितायां पत्रकारवार्तायां प्रदत्ता।
केन्द्रीयकृषिमन्त्री अवदत् यत् अस्य कार्यक्रमस्य सह समग्रदेशे “पीएम किसान उत्सव दिवस” अपि आचरिष्यते। अधुना यावत् योजनायाः द्वाविंशतिः किस्तयः माध्यमीकृत्य कृषकाणां खातेषु प्रायः ४.२८ लक्षकोटिरूप्यकाणि हस्तान्तरितानि सन्ति। तेन उक्तं यत् प्रत्येकं चतुर्मासानन्तरं प्रदीयमाना एषा साहायराशिः लघुसीमान्तकृषकाणां कृते महत् आर्थिकसहायकरूपेण परिणता अस्ति। खरीफ-ऋतोः वपनकार्यारम्भात् पूर्वं लभ्यमाना एषा धनराशिः कृषकाणां कृषिकार्येषु सहायिका भविष्यति।
पश्चिमबङ्गप्रदेशस्य कृषकेभ्यः प्रथमवारं बृहद्स्तरे लाभः भविष्यति
केन्द्रीयमन्त्री चौहान अवदत् यत् अस्मिन् अवसरे पश्चिमबङ्गप्रदेशस्य ४४.४२ लक्षपात्रकृषकेभ्यः प्रायः ८८५ कोटिरूप्यकाणां धनराशिः प्रत्यक्षतया तेषां कोषेषु प्रेषिता भविष्यति। तेन उक्तं यत् पूर्वं राज्यशासनेन पात्रकृषकाणां सूची समये न प्रदत्ता, येन अनेके कृषकाः योजनालाभात् वञ्चिताः अभवन्। किन्तु अधुना आवश्यकप्रक्रियाः सम्पन्नाः सन्ति, अतः ते अपि योजनालाभं प्राप्तुं शक्नुवन्ति।
मध्यप्रदेशस्य कृषकाः १,६३४ कोटिरूप्यकाणि प्राप्स्यन्ति
मध्यप्रदेशे योजनायाः त्रयोविंशतितमकिस्त्याः अन्तर्गतं ८१ लक्ष ६७ सहस्र २१३ कृषकाणां खातेषु १,६३४.८८ कोटिरूप्यकाणि हस्तान्तरितानि भविष्यन्ति। केन्द्रीयमन्त्री अवदत् यत् राज्यस्य कृषकेभ्यः अधुना यावत् द्वाविंशतिकिस्तिषु ३३,७२१ कोटिरूप्यकाधिकां धनराशिः प्रदत्ता अस्ति।
समग्रदेशे पीएम किसान उत्सव दिवसः आचरिष्यते
किसानसम्माननिधियोजनायाः त्रयोविंशतितमराशेः वितरणस्य अवसरः समग्रदेशे बृहद्स्तरे कार्यक्रमानां आयोजनेन आचरिष्यते। तेन उक्तं यत् सर्वेषु ७३१ कृषिविज्ञानकेन्द्रेषु, ११३ भारतीयकृष्यनुसन्धानपरिषदः संस्थानेषु, कृषिविश्वविद्यालयेषु, राज्यस्तरे, जनपदस्तरे, विकासखण्डस्तरे तथा ग्रामपञ्चायतस्तरे कार्यक्रमाः भविष्यन्ति। कृषिमण्डीषु, प्राथमिककृषिसहकारिसमितिषु तथा कृषकोत्पादकसङ्गठनेषु अपि एते कार्यक्रमाः सम्बद्धाः भविष्यन्ति। तेन सूचितं यत् प्रायः ४६ लक्षकृषकाः विविधस्थानेभ्यः प्रधानमन्त्रिणः कार्यक्रमेन सम्बोधनेन च सम्बद्धाः भविष्यन्ति। केन्द्रीयमन्त्रिणः, राज्येषु कृषिमन्त्रिणः तथा मुख्यमन्त्रिणः अपि एतेषु कार्यक्रमेषु सहभागिनः भविष्यन्ति। केन्द्रीयकृषिमन्त्री कृषकान् प्रति आह्वानं कृतवान् यत् ते स्वसमीपे आयोजितेषु कार्यक्रमेषु अवश्यं सहभागं कुर्वन्तु।
दलहनोत्पादककृषकेभ्यः राहतिः
केन्द्रीयकृषिमन्त्री अवदत् यत् कृषकेभ्यः स्वोत्पादितस्य धान्यस्य समुचितमूल्यं प्रदातुं केन्द्रशासनेन पीएम आशा योजनायाः अन्तर्गतं उत्तरप्रदेशे, छत्तीसगढप्रदेशे, तमिलनाडुप्रदेशे तथा गुजरातप्रदेशे मुद्गस्य, मसूरिकायाः, उडिदस्य च न्यूनतमसमर्थनमूल्येन क्रयणस्य अनुमतिः प्रदत्ता अस्ति। अनेन कृषकाणां कृते विपण्यां मूल्यक्षयस्य परिस्थितौ अपि आर्थिकसुरक्षा सुनिश्चितता भविष्यति। मध्यप्रदेशे अपि क्रयणसम्बद्धव्यवस्थानां विषये राज्यशासनेन सह शीघ्रमेव उपवेशनं कृत्वा अन्तिमनिर्णयः क्रियिष्यते।
अल नीनो तथा दुर्बलमान्सूनपरिस्थितेः निवारणाय सज्जता
शिवराज सिंह चौहान अवदत् यत् अल नीनो प्रभावस्य सम्भावितपरिस्थितीनां तथा वर्षाकालस्य विलम्बस्य आशङ्कां दृष्ट्वा केन्द्रशासनं निरन्तरं समीक्षां करोति। राज्यैः सह नियमितोपवेशनानि भवन्ति तथा सम्भावितप्रभावितजनपदानां कृते आपत्कालीनकार्ययोजनाः निर्मीयन्ते। तेन उक्तं यत् सम्भावितप्रभावितजनपदेषु अल्पजलावश्यकतायुक्ताः कृषयः, वैकल्पिककृषयः, उपयुक्तबीजानाम् उपलब्धता तथा आवश्यककृषिप्रबन्धनरणनीतयः कार्ययोजनायां समाविष्टाः सन्ति। तेन उक्तं यत् पूर्वमेव १९७ सम्भावितप्रभावितजनपदाः चिह्निताः सन्ति तथा तेषां सर्वेषां कृते विस्तृतकार्ययोजना निर्मीयमाणा अस्ति। केन्द्रराज्यशासनयोः समन्वितप्रयत्नेन सम्भावितपरिस्थितीनां प्रभावीरीत्या सामना कर्तुं प्रयासः क्रियते।
परालीप्रबन्धने अपि विशेषं ध्यानं भविष्यति
केन्द्रीयकृषिमन्त्री चौहानः अवदत् यत् आगामिफसलचक्रं दृष्ट्वा परालीप्रबन्धनस्य कृते अस्मिन् वारे वपनकालादेव राज्यशासनानां प्रति आवश्यकपदानि स्वीकर्तुं निर्देशाः प्रदत्ताः सन्ति। तेन उक्तं यत् फसलावशेषाणां वैज्ञानिकप्रबन्धनार्थं पूर्वसज्जता अत्यावश्यकी अस्ति, येन कटनोत्तरकाले कृषकाणां परालीदाहस्य आवश्यकता न भवेत्। केन्द्रशासनं राज्यशासनैः सह समन्वयं स्थापयित्वा आधुनिकप्रविधीनां, कृषियन्त्राणां तथा वैकल्पिकप्रबन्धनोपायानां प्रोत्साहनार्थं कार्यं करोति। तेन उक्तं यत् पराली जैविकखादरूपेण, पशुचारे, बायो सीएनजी निर्माणे, ऊर्जोत्पादने तथा अन्यासु कृष्याधारितक्रियासु उपयोक्तुं शक्यते, येन कृषकेभ्यः अतिरिक्तायाः आयायाः अवसराः अपि प्राप्स्यन्ते। तेन उक्तं यत् केन्द्रशासनस्य उद्देश्यं वैज्ञानिकानां स्थायिकृषिपद्धतीनां प्रोत्साहनं कृत्वा पर्यावरणसंरक्षणस्य कृषकहितस्य च मध्ये सन्तुलनं स्थापयितुम् अस्ति, येन फसलावशेषप्रबन्धनं जनसहभागितायाः आधारेण सफलमभियानं भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani