पूर्व-मेदिनीपुरे तृणमूल-नेतृणां त्यागपत्र-परम्परा प्रवर्तते, महिषादल-पञ्चायत-समिति-अध्यक्षः पदं त्यक्तवान्
पूर्व-मेदिनीपुरम्, १८ जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्ये सत्ता-परिवर्तनानन्तरं स्थानीय-निकायेषु त्यागपत्र-प्रवाहः निरन्तरं प्रचलति। तस्मिन्नेव क्रमे तृणमूल-कांग्रेस-नेत्री शिउलीदास: महिषादल-पञ्चायत-समिति-अध्यक्ष-पदात् स्वीयं त्यागपत्रं दत्तवती। सू
तृणमूल कांग्रेस


पूर्व-मेदिनीपुरम्, १८ जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्ये सत्ता-परिवर्तनानन्तरं स्थानीय-निकायेषु त्यागपत्र-प्रवाहः निरन्तरं प्रचलति। तस्मिन्नेव क्रमे तृणमूल-कांग्रेस-नेत्री शिउलीदास: महिषादल-पञ्चायत-समिति-अध्यक्ष-पदात् स्वीयं त्यागपत्रं दत्तवती।

सूत्रानुसारं सा बुधवार-सायंकाले हल्दिया-महकमा-शासकस्य कार्यालये स्वत्यागपत्रं समर्पितवती, यत् च स्वीकृतम्। शिउलीदास: २०१३ वर्षात् आरभ्य त्रिवारं निरन्तरं त्रिस्तरीय-पञ्चायत-निर्वाचने विजयं प्राप्तवती तथा महिषादल-पञ्चायत-समितेः अध्यक्ष-पदं वहन्ती आसीत्। तस्याः कार्यकालः २०२८ वर्षपर्यन्तं निर्धारितः आसीत्, किन्तु स्वास्थ्य-कारणात् सा मध्यकार्यकाले पदं त्यक्तवती।

महकमा-शासकाय लिखिते पत्रे सा उल्लिखितवती यत् सा दीर्घकालात् शारीरिक-अस्वस्थतया तथा अन्यैः स्वास्थ्य-समस्याभिः पीडिता अस्ति। अतः स्वेच्छया अध्यक्ष-पदस्य दायित्वात् मुक्तिं प्रार्थितवती।

महिषादल-पञ्चायत-समितौ आहत्य ३३ आसनानि सन्ति, येषु तृणमूल-कांग्रेसस्य २३ तथा भारतीय-जनता-पक्षस्य १० आसनानि सन्ति। आगामी १९ जूनमासे पञ्चायत-समितेः सामान्य-सभा प्रस्ताविता अस्ति, तस्याः पूर्वमेव अध्यक्षस्य त्यागपत्रेण क्षेत्रे राजनीतिक-चर्चाः तीव्रतां प्राप्ताः।

विपक्ष-नेता रघुनाथ-पण्डा उक्तवान् यत् सत्ता-परिवर्तनानन्तरमपि अध्यक्षेन सह अन्यैः पदाधिकारिभिः च सौहार्दपूर्ण-संबन्धाः आसन्। अचानक-त्यागपत्रस्य कारणं स्पष्टं नास्ति, किन्तु सर्वे मिलित्वा क्षेत्रस्य विकासाय कार्यं कर्तुम् इच्छन्ति।

उल्लेखनीयम् अस्ति यत् राज्ये राजनीतिक-परिवर्तनानन्तरं महिषादल-क्षेत्रस्य पूर्व-तृणमूल-विधायकः तिलक-कुमार-चक्रवर्ती इत्यादयः अनेक-स्थानीय-नेतारः पूर्वमेव गृहीता: अभवन्, येन क्षेत्रे पूर्वमेव राजनीतिक-उत्कंठा वर्तते। अतः अध्यक्षस्य त्यागपत्रं नूतन-राजनीतिक-संकेत-रूपेण अपि दृश्यते।

Hindusthan Samachar / Dheeraj Maithani