Enter your Email Address to subscribe to our newsletters

धमतरी, 18 जूनमासः (हि.स.)।
नगरे स्वच्छतायाः नागरिकसुविधानां च उन्नयनस्य उद्देश्येन महापौरः जगदीशरामूरोहरा गुरुवासरे रामपुरस्थितस्य डबरीपाराक्षेत्रस्य निरीक्षणं कृत्वा तत्रत्यसमस्यानां अवलोकनं कृतवान्। निरीक्षणकाले तेन क्षेत्रे जलसञ्चयस्य, नालिकानां स्थितेः तथा स्वच्छताव्यवस्थायाः अवलोकनं कृतम्।
महापौरः सम्बद्धाधिकारिणः निर्देशितवान् यत् वर्षर्तुं मनसि निधाय जलनिर्गमनस्य समुचितव्यवस्था सुनिश्चितीक्रियताम् तथा नालिकानां नियमितस्वच्छीकरणं कृत्वा जलसञ्चयसमस्यायाः शीघ्रं समाधानं क्रियताम्। तेन उक्तं यत् नागरिकानां कापि असुविधा न भवेत्, एतदर्थं सर्वाणि आवश्यककार्याणि प्राधान्याधारेण सम्पादनीयानि।
निरीक्षणकाले स्थानीयनागरिकाः अपि क्षेत्रस्य विभिन्नाः समस्याः महापौरं ज्ञापितवन्तः। महापौरः रोहरा तासां समस्याणां गम्भीरतया श्रवणं कृत्वा सम्बद्धाधिकारिणः त्वरितकार्यवाह्याः कृते निर्देशितवान्। तेन उक्तं यत् नगरनिगमः नगरस्य प्रत्येकस्मिन् वार्डे मूलभूतसुविधानां सुदृढीकरणाय प्रतिबद्धः अस्ति तथा च स्वच्छस्य सुन्दरस्य सुव्यवस्थितस्य च धमतरीनगरस्य निर्माणार्थं निरन्तरं कार्यं क्रियते।
अस्मिन् अवसरे निगमस्य अधिकारिणः कर्मचारीवर्गः स्थानीयजनप्रतिनिधयः च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani