Enter your Email Address to subscribe to our newsletters

एवियननगरम् (फ्रांसदेशः), १८ जूनमासः (हि.स.)। प्रधानमन्त्रीनरन्द्रमोदी-महोदयेन जी-७ शिखरसम्मेलनस्य समये यूक्रेन-राष्ट्रपतिना वोलोडाइमायर-जेलेनस्की इत्यनेन सह साक्षात्कार: कृत:।
साक्षात्कारान्तरं तेन सामाजिक-माध्यमे ‘एक्स’ इत्यत्र सूचितं यत् भारत-यूक्रेनदेशयोः मध्ये अतीतेषु कालेषु सहयोगः तथा परस्पर-संपर्कः निरन्तरं वर्धमानः अस्ति, यः विविध-क्षेत्रेषु सहभागी-रूपेण दृश्यते।
प्रधानमन्त्री उक्तवान् यत् सभायां द्विपक्षीय-सहयोगस्य विविध-पक्षेषु विस्तृतरूपेण चर्चा कृता। उभौ नेतारौ अस्मिन् विषये सहमतौ अभवताम् यत् व्यापारिक-संबन्धाः पुनः युद्ध-पूर्व-स्तरं यावत् पुनःस्थापनीयाः, येन आर्थिक-सहयोगः पुनः सुदृढः भवेत्।
तेन स्वसन्देशे इदमपि स्पष्टं कृतं यत् भारतदेश: सर्वदा शान्तेः पक्षे स्थास्यति तथा मानवीय-मूल्यानि अग्रे स्थापयन् स्वभूमिकां निर्वक्ष्यति। एष: साक्षात्कार: द्वयोः देशयोः सम्बन्ध-सुदृढीकरणे महत्त्वपूर्ण: इति मन्यते।
जी-७ सम्मेलने सम्पन्न: एष: साक्षात्कार: वैश्विक-संघर्ष-परिस्थितिषु संवाद-कूटनीतिक-प्रयत्नानां प्रगत्यै एकः महत्त्वपूर्णः पदक्षेपः इति परिगण्यते।
Hindusthan Samachar / Dheeraj Maithani