अंबुबासी मेलापके अष्ट लक्षात् अधिकानां श्रद्धालूनाम् आगमनस्य संभावना : मुख्यमंत्री
गुवाहाटी, 18 जूनमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा उक्तवान् यत् गुवाहाटीनगरस्य नीलाचलपर्वते स्थितं मातुः कामाख्यायाः धाम विश्वस्य विभिन्नदेशेभ्यः आगच्छन्तीनां श्रद्धालूनां विशालसमागमेन सह इतिहासरचनायै सज्जम् अस्ति। मुख्यमन
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 18 जूनमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा उक्तवान् यत् गुवाहाटीनगरस्य नीलाचलपर्वते स्थितं मातुः कामाख्यायाः धाम विश्वस्य विभिन्नदेशेभ्यः आगच्छन्तीनां श्रद्धालूनां विशालसमागमेन सह इतिहासरचनायै सज्जम् अस्ति।

मुख्यमन्त्री सामाजिकमाध्यमस्य स्वकीयाधिकारिकहस्तके निर्गते सन्देशे उक्तवान् यत् अम्बुबासीमेलाकाले देशविदेशेभ्यः आगच्छतां श्रद्धालूनां स्वागतार्थम् उन्नताधारभूतसंरचनाः विश्वस्तरीयसुविधाः च उपलब्धाः कारिताः सन्ति। तेन सूचितं यत् अस्मिन् वर्षे मेले अष्टलक्षाधिकश्रद्धालूनां समागमस्य सम्भावना वर्तते।

मुख्यमन्त्री उक्तवान् यत् श्रद्धालूनाम् एषा विशालसंख्या असमराज्यस्य आध्यात्मिकचेतनां सांस्कृतिकगौरवं च नूतनाम् उन्नतिं प्रदास्यति। अम्बुबासीमेला केवलं धार्मिकश्रद्धायाः केन्द्रं नास्ति, अपितु राज्यस्य समृद्धसांस्कृतिकविरासतायाः प्रतीकत्वेन अपि प्रतिष्ठितः अस्ति।

डा सरमा असमवासिनां पक्षतः मातुः कामाख्यायाः सर्वेषां भक्तानां हार्दिकं स्वागतं कृत्वा तान् अस्य पवित्रस्य आध्यात्मिककार्यक्रमस्य भागिनः भवितुम् आमन्त्रितवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani