Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ जूनमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् लक्ष्मीः सत्यनिष्ठाम् अनुसरति, कीर्तिः परोपकारं तथा त्यागम् अनुसरति, विद्या निरन्तराभ्यासम् अनुसरति, बुद्धिः च कर्मानुसारिणी भवति। तेन एतानि मूल्यानि व्यक्तित्वनिर्माणे सामूहिकप्रगतेश्च अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहन्ति इति प्रतिपादितम्।
प्रधानमन्त्री गुरुवासरे ‘एक्स’ इति सामाजिकमाध्यमे संस्कृत-सुभाषितम् अशृणोत्—
सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी॥
अस्य सुभाषितस्य भावार्थः अस्ति—समृद्धिः सत्यस्य अनुगामिनी भवति, यशः त्यागेन प्राप्यते, विद्या निरन्तराभ्यासेन सम्पद्यते, बुद्धिः च मनुष्यस्य कर्मानुसारं विकसिता भवति। एषः श्लोकः सत्यनिष्ठायाः, त्यागस्य, परिश्रमस्य सत्कर्मणां च महत्त्वं प्रतिपादयति तथा जीवने सफलता-सम्मानयोः प्राप्तये एतानि मूल्यानि आचरितव्यानि इति सन्देशं ददाति।
Hindusthan Samachar / Divya Ranjan