Enter your Email Address to subscribe to our newsletters

जयपुरम्, 18 जूनमासः (हि.स.)।
मुख्यमन्त्री भजनलाल शर्मा महोदयेन राष्ट्रियक्रीडास्पर्धायां तथा दिव्याङ्गराष्ट्रियक्रीडास्पर्धायां पदकप्राप्तेभ्यः पञ्चाशत् क्रीडकाभ्यः कनिष्ठसहायकपदे नियुक्तिप्रदानस्य तथा तेषां माध्यमिकशिक्षाविभागे आवंटनस्य अनुमतिः प्रदत्ता।
उल्लेखनीयम् अस्ति यत् राष्ट्रियक्रीडास्पर्धायां तथा दिव्याङ्गराष्ट्रियक्रीडास्पर्धायां पदकप्राप्ताः एते पञ्चाशत् क्रीडकाः परीक्षणानन्तरं नियुक्तियोग्याः अभवन्। मुख्यमन्त्रिणा एतेभ्यः पञ्चाशत् क्रीडकेभ्यः नियुक्तिप्रदानसम्बद्धः प्रस्तावः अनुमोदितः। शीघ्रमेव ते माध्यमिकशिक्षाविभागे कनिष्ठसहायकपदेषु पदस्थापिताः भविष्यन्ति।
मुख्यमन्त्रिणः अस्य निर्णयस्य फलस्वरूपं प्रतिभासम्पन्नाः युवा क्रीडकाः क्रीडाक्षेत्रे अग्रे गन्तुं प्रोत्साहनं प्राप्स्यन्ति तथा च प्रदेशे क्रीडानां विकासः अपि प्रोत्साहितः भविष्यति।
---------------