Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 18 जूनमासः (हि.स.)। उत्तराखण्डविशेषकार्यबलम् एसटीएफ राज्ये कथितराष्ट्रविरोधि कट्टरपन्थिगतिविधिभिः सम्बद्धे एकस्मिन् प्रकरणे उधमसिंहनगरजनपदस्य गदरपुरनिवासिनम् एकं व्यक्तिं गृहीतवती। अभियुक्तस्य सामाजिकमाध्यमलेखानां चलदूरवाण्याः च परीक्षणे कट्टरपन्थिविचारधारासम्बद्धसामग्री तथा सन्दिग्धसंवादाः प्राप्ताः, ततः एषा कार्यवाही कृता।
एसटीएफ अनुसारं गृहीतस्य अभियुक्तस्य परिचयः मो सलाउद्दीनः अब्दुलमलिकस्य पुत्रः, मजरासीलाग्रामनिवासी, गदरपुर, उधमसिंहनगरजनपदः इति अस्ति। आरोपः अस्ति यत् सः इन्स्टाग्राम, टेलिग्राम तथा सिग्नल इत्यादिसामाजिकमाध्यममञ्चानां माध्यमेन युवानः प्रभावित्य तान् कट्टरपन्थिविचारधारया सम्बद्धान् कर्तुं तथा सामाजिकसौहार्दस्य राष्ट्रियसुरक्षायाश्च प्रतिकूलगतिविधीनां प्रोत्साहनाय प्रयत्नशीलः आसीत्।
अनुसन्धानसंस्थायाः अनुसारं चलदूरवाण्याः प्रारम्भिकपरीक्षणे अनेकेषु समूहेषु संवादेषु च कथितजिहाद, शहादत तथा राष्ट्रविरोधिविचारैः सम्बद्धा सामग्री प्राप्ता। एसटीएफ इत्यस्य दावा अस्ति यत् केषुचित् संवादेषु आयुधानां विस्फोटकसामग्र्याः सञ्चयनस्य परिवहनस्य च विषये सन्दिग्धवार्तालापाः अपि प्राप्ताः, येषां तकनीकीवैज्ञानिकपरीक्षणं प्रचलति।
एसटीएफ एकस्मिन् विज्ञप्तिपत्रे उक्तवती यत् प्रारम्भिकपरीक्षणे अभियुक्तस्य सामाजिकमाध्यमजालस्य माध्यमेन अन्ताराष्ट्रियैः सीमापारस्थितैः कट्टरपन्थितत्त्वैः सह सम्भाव्यसम्पर्काणां सङ्केताः प्राप्ताः। एतेषां सम्पर्काणां सत्यता विस्तारः च ज्ञातुं विस्तृतानुसन्धानं प्रवर्तते।
मो सलाउद्दीनः अब्दुलमलिकस्य पुत्रः, मजरासीलाग्रामनिवासी, गदरपुर, उधमसिंहनगरजनपदः, अस्य उत्तरप्रदेशस्य रामपुरनिवासिना एकेन व्यक्तिना सह सम्पर्कः आसीत् इति सूचना प्राप्ता, यस्य भूमिकायाः अनुसन्धानं क्रियते।
एसटीएफ अनुसारं रात्रौ सञ्चालिते अन्वेषणाभियाने अभियुक्तस्य निर्देशनेन एका पिस्तौलिका, पञ्च कार्तूस, चत्वारः डेटोनेटर तथा द्वौ एके ४७ कार्तूसौ प्राप्तौ। प्राप्तसामग्र्याः परीक्षणं क्रियते। अस्मिन् प्रकरणे अभियुक्तस्य विरुद्धं भारतीयन्यायसंहितायाः धारा १५२ तथा ६१(२), सूचना प्रौद्योगिकी अधिनियम २००० इत्यस्य धारा ६६(सी) तथा ६६(एफ) अन्तर्गतं अभियोगः पञ्जीकृतः।
वरिष्ठपुलिसअधीक्षकः एसटीएफ अजयसिंहः उक्तवान् यत् अस्मिन् प्रकरणे सम्बद्धाः सूचनाः विभिन्नाभिः अभिसूचनासुरक्षासंस्थाभिः सह साझा कृताः सन्ति तथा अग्रिमविधिककार्यवाही प्रचलति। तेन सामान्यजनान् प्रति अपीलं कृतं यत् राष्ट्रविरोधि अथवा सन्दिग्धगतिविधीनां विषये सूचना प्राप्ते सति त्वरितं पुलिसविभागं वा एसटीएफ संस्थां वा सूचयन्तु। सूचनादातुः परिचयः गोपनीयः स्थाप्यते।
Hindusthan Samachar / Dheeraj Maithani