Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 18 जूनमासः (हि. स.)।
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये मुख्यमन्त्रिनिवासे अधिकारिभिः कर्मचारिभिश्च सह योगाभ्यासम् अकरोत् तथा च प्रदेशवासिनः योगं स्वस्य दैनिकदिनचर्यायाः अङ्गरूपेण स्वीकर्तुम् आह्वयत्।
अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् नियमितयोगाभ्यासः स्वस्थस्य सन्तुलितस्य च जीवनस्य महत्त्वपूर्णः आधारः अस्ति। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदीस्य नेतृत्वे भारतस्य प्राचीना योगपरम्परा वैश्विकस्तरे नूतनां परिचितिं सम्मानं च प्राप्तवती। अद्य योगः विश्वस्य सर्वेषु भागेषु स्वास्थ्यस्य, मानसिकशान्तेः तथा समग्रकल्याणस्य प्रभावी माध्यमरूपेण स्वीकृतः अस्ति।
मुख्यमन्त्री अवदत् यत् योगः केवलं शारीरिकस्वास्थ्यपर्यन्तं सीमितः नास्ति, अपितु मानसिकशान्तेः, आत्मानुशासनस्य, सकारात्मकजीवनशैल्याः तथा जीवने सन्तुलनस्थापनस्य सशक्तं माध्यमम् अस्ति। योगः मनुष्यं तनावमुक्तं, ऊर्जावन्तं, स्वस्थं च जीवनं नेतुं प्रेरयति।
तेन प्रदेशवासिनः आग्रहपूर्वकम् उक्ताः यत् ते जूनमासस्य एकविंशतितमे दिने आयोज्यमानेषु अन्ताराष्ट्रिययोगदिवसस्य कार्यक्रमेषु अधिकाधिकसंख्यया सहभागिनः भवेयुः तथा च योगस्य जनजनपर्यन्तं प्रसारे योगदानं दद्युः।
Hindusthan Samachar / Dheeraj Maithani