Enter your Email Address to subscribe to our newsletters

ओरैया, 18 जूनमासः (हि. स.)।
प्रधानमन्त्रिणः नरेन्द्र मोदिनः सफलनेतृत्वे सेवायाः, सुशासनस्य, विकासस्य, विश्वासस्य जनकल्याणस्य च द्वादशवर्षपूर्णतायाः उपलक्ष्ये गुरुवासरे उत्तरप्रदेशस्य औरैयाजनपदस्य सदरविकासखण्डस्य सभागारे प्रदर्शनी तथा प्राकृतिककृषिकार्यशालायाः आयोजनम् अभवत्। कार्यक्रमस्य अध्यक्षतां जिलाध्यक्षः डॉ. सर्वेश कठेरिया अकरोत्।
कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः उत्तरप्रदेशशासनस्य पूर्वकृषिराज्यमन्त्री लाखन सिंह राजपूत अवदत् यत् एषा केवलं कार्यशाला नास्ति, अपितु कृषकाणां समृद्धये, भूमेः उर्वरतायै तथा आगामिसंततीनां कृते स्वस्थभविष्यस्य सङ्कल्पः अस्ति। तेन उक्तं यत् गतद्वादशवर्षेषु राष्ट्रस्य यशस्विनः प्रधानमन्त्री मोदी महोदयस्य नेतृत्वे कृषिक्षेत्रे अभूतपूर्वाः परिवर्तनाः अभवन्।
जिलाध्यक्षः सर्वेश कठेरिया अपि अवदत् यत् प्राकृतिककृषिः अद्यतनकाले अत्यावश्यकी आवश्यकता अस्ति। रासायनिकउर्वरकाणां कीटनाशकानां च अतिप्रयोगात् भूमेः उर्वरता प्रभाविताभवत्।
कार्यक्रमे अजीतमलविकासखण्डस्य प्रमुखः रजनीश पाण्डेय, जिलामहामन्त्री यशवीर सिकरवार इत्यादयः प्रमुखपदाधिकारिणः तथा शतशः कृषकाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani