यमुना तटे विहिता भव्यारती, योगाभ्यासं कृत्वा जनाः स्वस्थ जीवनस्य अगृह्णात् संकल्पम्
अंताराष्ट्रीय योग दिवसस्य अंतर्गते शेरगढ़घट्टे आयोजितो विशेषः कार्यक्रमः औरैया, 18 जूनमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजनपदे द्वादशस्य अन्तरराष्ट्रीययोगदिवसस्य अन्तर्गतं गुरुवासरे प्रातःकाले शेरगढघाटस्थिते यमुनातटे वनविभागेन, जिलागङ्गासमित्या
फोटो। यमुना आरती करते हुए लोग


अंताराष्ट्रीय योग दिवसस्य अंतर्गते शेरगढ़घट्टे आयोजितो विशेषः कार्यक्रमः

औरैया, 18 जूनमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयाजनपदे द्वादशस्य अन्तरराष्ट्रीययोगदिवसस्य अन्तर्गतं गुरुवासरे प्रातःकाले शेरगढघाटस्थिते यमुनातटे वनविभागेन, जिलागङ्गासमित्या, आयुषविभागेन, जिलाप्रशासनेन तथा समाजसेवीसंस्थया ‘एकविचित्रपहलसेवासमितिः’ इत्येतैः संयुक्ततत्त्वावधानेन भव्यः कार्यक्रमः आयोजितः। कार्यक्रमस्य प्रारम्भः यमुनामातुः विधिविधानपूर्वकपूजार्चनया दिव्यारात्रिकया च अभवत्, ततः सामूहिकयोगाभ्यासः कारितः।

प्रातः सप्तवादने आयोजिते कार्यक्रमे होम्योपैथीडीएचएमओ डा परवीन, आयुर्वेदिकचिकित्साधिकारी डा हरिप्रतापसिंहः तथा संस्थायाः सदस्याः ध्वनिविस्तारकयन्त्रैः, घण्टाघडियालैः, शङ्खनादेन च सह मन्त्रौच्चारणपूर्वकं यमुनामातुः आरात्रिकां कृतवन्तः। उपस्थिताः श्रद्धालवः पारिवारिकसुखसमृद्धिशान्तीनां कामनां कुर्वन्तः यमुनामातुः गुणगानं कृतवन्तः।

आरात्रिकायाः अनन्तरं लखनऊमिशनद्वारा औरैयाजनपदस्य कृते नियुक्तः मास्टरट्रेनरः डा शशिराजसेठः प्रार्थनामन्त्रेण सह विभिन्नयोगासनानां प्राणायामस्य च अभ्यासं कारितवान्। योगाभ्यासकाले उपस्थितजनाः प्रतिदिनं योगाभ्यासं कृत्वा स्वस्थजीवनस्य अवलम्बनाय शपथामपि गृहीतवन्तः।

कार्यक्रमे संस्थायाः अध्यक्षः राजीवपोरवालः रानू इति विख्यातः उक्तवान् यत् योगं दैनिकजीवनस्य अङ्गत्वेन स्वीकृत्य मनुष्यः शारीरिकतया मानसिकतया च स्वस्थः भवितुं शक्नोति। अपरतः जिलागङ्गासमितेः सदस्यः आनन्दनाथगुप्तः एड्वोकेट् उक्तवान् यत् नदीनां स्वच्छतायाः संरक्षणं सर्वेषां नैतिकदायित्वम् अस्ति। तेन उक्तं यत् संस्था गतैकादशवर्षेभ्यः श्मशानघाटस्वच्छताअभियानं जीवनधारावृक्षारोपणाभियानं च निरन्तरं सञ्चालयति।

तेन जनाः अधिकाधिकवृक्षारोपणाय तथा यमुनानद्यां मृतपशुपक्षिणः, धार्मिकसामग्रीम् अन्यान् अपशिष्टपदार्थान् च न विसर्जयितुम् आवेदिताः। कार्यक्रमस्य सञ्चालनम् आनन्दनाथगुप्तेन एड्वोकेटेन कृतम्।

अस्मिन् अवसरे जिलागङ्गासमितेः परियोजनाधिकारी साक्षीशुक्ला, वनविभागस्य डिप्टीरेञ्जर् डीएसगौतमः, क्षेत्राधिकारी वन अङ्गदसिंहचन्देलः, नगरपालिकायाः स्वच्छतानीरीक्षकः आशीषपाण्डेयः, जागृतिपोरवालः, दीपलः, शर्मिष्ठागुप्ता, अनुपमसेठः एड्वोकेट्, आरोही, सतीशकुमारश्रीवास्तवः, ब्रजराजसिंहः, रिशुकुमारसिंहः, राहुलमिश्रः, प्रेमकुमारः, दीपककुशवाहः, अश्विनीकुमारः, हिमांशुदुबे, रामचन्द्रसोनी इत्यादयः बहुसंख्यकजनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani