उत्तरप्रदेशमाध्यमिकशिक्षापरिषदा 465 वित्तविहीन विद्यालयानां मान्यता समाप्ता
द्वाभ्यां वर्षाभ्यां एकस्मिन्नपि विद्यार्थिनि न नामांकिते जाता कार्यवाही प्रयागराजः, 18 जूनमासः (हि.स.)। माध्यमिकशिक्षापरिषद् उत्तरप्रदेशेन प्रदेशस्य ४६५ वित्तविहीनमाध्यमिकविद्यालयानां मान्यता समाप्ता कृता। एषा सूचना गुरुवासरे परिषदः सचिवेन भगवत
उत्तर प्रदेश माध्यमिक शिक्षा परिषद द्वारा जारी पत्र का छाया चित्र


द्वाभ्यां वर्षाभ्यां एकस्मिन्नपि विद्यार्थिनि न नामांकिते जाता कार्यवाही

प्रयागराजः, 18 जूनमासः (हि.स.)।

माध्यमिकशिक्षापरिषद् उत्तरप्रदेशेन प्रदेशस्य ४६५ वित्तविहीनमाध्यमिकविद्यालयानां मान्यता समाप्ता कृता। एषा सूचना गुरुवासरे परिषदः सचिवेन भगवतीसिंहेन प्रदत्ता।

तेन उक्तं यत् एषा कार्यवाही निर्धारितमानदण्डानां मान्यतासम्बद्धशर्तानां च अनुपालनाभावात् तथा च निरन्तरं द्विवर्षपर्यन्तं विद्यालयेषु एकोऽपि विद्यार्थी नामाङ्कितः न प्राप्तः इत्यस्य आधारेण कृता।

तेन सूचितं यत् एते विद्यालयाः उत्तरप्रदेशस्ववित्तपोषितविद्यालयमान्यताप्रदानविनियमावल्याः अन्तर्गतं मान्यतां प्राप्तवन्तः आसन्। विभिन्नस्तरेषु कृतेषु परीक्षणेषु सत्यापनेषु च एतत् ज्ञातं यत् एतेषु विद्यालयेषु शैक्षणिकगतिविधयः प्रभावकरूपेण न सञ्चालिताः आसन् तथा च निर्धारितमानदण्डानाम् अनुपालनमपि न क्रियमाणम् आसीत्। परिषदेन कार्यवाह्याः पूर्वं सम्बद्धविद्यालयेभ्यः कारणदर्शयतुसूचनापत्राणि प्रेष्य स्वपक्षस्थापनस्य अवसरः प्रदत्तः आसीत्। प्राप्तस्पष्टीकरणानां परीक्षणानन्तरं सन्तोषजनकं उत्तरं न प्राप्तम्, अतः तेषां मान्यता समाप्तुं निर्णयः कृतः।

उत्तरप्रदेशमाध्यमिकशिक्षापरिषदः सचिवः भगवतीसिंहः उक्तवान् यत् परिषद् गुणवत्तायुक्तायाः पारदर्शिशिक्षाव्यवस्थायाः कृते प्रतिबद्धा अस्ति। तेन उक्तं यत् मान्यताप्राप्तेषु सर्वेषु विद्यालयेषु निर्धारितमानदण्डानां नियमानां च पालनम् अनिवार्यम् अस्ति। येषु विद्यालयेषु शैक्षणिकगतिविधयः न सञ्चालिताः आसन् तथा च निरन्तरं द्विवर्षपर्यन्तं एकोऽपि छात्रः नामाङ्कितः न आसीत्, तेषां विरुद्धं नियमानुसारं कार्यवाही कृता अस्ति।

तेन उक्तं यत् अस्य निर्णयस्य उद्देश्यं प्रदेशे माध्यमिकशिक्षायाः गुणवत्तां संरक्षितुं तथा शिक्षाव्यवस्थां अधिकप्रभाविनीं उत्तरदायिनीं च कर्तुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani