विश्व हिन्दू परिषदः केन्द्रीय संत मार्गदर्शक मण्डल उपवेशनस्य संगोष्ठ्यां धर्मं, संस्कृतिं राष्ट्रं च आधृत्य जातं मंथनम्
हरिद्वारम्, 18 जूनमासः (हि.स.)। निष्कामसेवासमितौ विश्वहिन्दूपरिषदः केन्द्रीयसन्तमार्गदर्शकमण्डलस्य द्विदिवसीयोपवेशनम् गुरुवासरे आध्यात्मिकवातावरणे प्रारब्धम्। भारतवर्षस्य विविधपीठानां, अखाडानां, सम्प्रदायानां तथा आध्यात्मिकपरम्पराणां शीर्षस्थसन्
संतों का स्वागत करते विश्व हिंदू परिषद के अंतरराष्ट्रीय अध्यक्ष आलोक कुमार


हरिद्वारम्, 18 जूनमासः (हि.स.)।

निष्कामसेवासमितौ विश्वहिन्दूपरिषदः केन्द्रीयसन्तमार्गदर्शकमण्डलस्य द्विदिवसीयोपवेशनम् गुरुवासरे आध्यात्मिकवातावरणे प्रारब्धम्। भारतवर्षस्य विविधपीठानां, अखाडानां, सम्प्रदायानां तथा आध्यात्मिकपरम्पराणां शीर्षस्थसन्तमहात्मनाम् सान्निध्ये राष्ट्रजीवनस्य समक्षम् उपस्थितानां समसामयिकपरिस्थितीनां, सनातनसंस्कृतेः संरक्षणस्य तथा लोककल्याणस्य विविधविषयाणां विषये व्यापकचिन्तनमन्थनं च अभवत्।

उपवेशनस्य प्रथमदिने हिन्दूसमाजस्य संगठनम्, सनातनसंस्कृतेः संरक्षणं संवर्धनं च, गोसंरक्षणम्, धार्मिकस्थानानां सुरक्षा, सेवाकार्यविस्तारः, सामाजिकसमरसता, परिवारप्रबोधनम्, युवाजागरणम्, धर्मान्तरणसम्बद्धाः चुनौतयः, राष्ट्रियैकात्मता तथा वैश्विकस्तरे भारतीयाध्यात्मिकमूल्यानां प्रसारः इत्यादिषु अनेकेषु महत्त्वपूर्णविषयेषु विस्तृता चर्चा अभवत्। सन्तैः धर्माचार्यैश्च स्वोद्बोधनेषु उक्तं यत् भारतस्य आत्मा तस्याः सनातनसंस्कृतौ निहिता अस्ति तथा धर्मस्य, सेवायाः, संस्कारस्य, समरसतायाश्च आधारेण एव राष्ट्रस्य वास्तविकोन्नतिः सम्भवा अस्ति। सनातनधर्मः केवलं धार्मिकपरम्परा नास्ति, अपितु सम्पूर्णमानवतायै शान्तेः, सद्भावस्य, करुणायाः, सहअस्तित्वस्य, विश्वबन्धुत्वस्य च सन्देशं प्रददाति जीवनपद्धतिः अस्ति। अतः अस्य संरक्षणाय, संवर्धनाय, विश्वव्यापिप्रसाराय च सन्तैः अग्रणी भूमिका निर्वाह्या।

सन्तसमाजेन विश्वहिन्दूपरिषदा सेवा, संगठनं, संस्कारश्च माध्यमीकृत्य सञ्चालितानां विविधकार्यक्रमाणां प्रशंसा कृता तथा उक्तं यत् वर्तमानकाले सन्तशक्तेः सामाजिकसङ्गठनानां च समन्वितप्रयासाः एव राष्ट्रनिर्माणस्य, लोकमङ्गलस्य, सांस्कृतिकपुनर्जागरणस्य च आधारः भवितुमर्हन्ति।

उपवेशने जूनापीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी अवधेशानन्द गिरिः, महानिर्वाणीपीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी विशोकानन्द भारती, ज्योतिषपीठाधीश्वरः जगद्गुरुः शङ्कराचार्यः स्वामी वासुदेवानन्द सरस्वती, अटलपीठाधीश्वरः आचार्यमहामण्डलेश्वरः स्वामी विश्वात्मानन्, युगपुरुषः स्वामी परमानन्दः, निर्मलपीठाधीश्वरः स्वामी ज्ञानदेव सिंह, साध्वी ऋतंभरा, युधिष्ठिर महाराज शदाणी दरबार, शान्तिकुञ्जहरिद्वारस्य प्रमुखः डॉ. चिन्मय पण्ड्या, साध्वी पूर्णप्रज्ञा, गुजरातस्य कर्णावत्याः देवलाचार्य अविचलाचार्य महाराज, अखिलभारतीयसन्तसमितेः राष्ट्रियमहामन्त्री स्वामी जितेन्द्रानन्द सरस्वती महाराज, मुम्बईनगरात् डॉ. भदन्त राहुल बोधि, महामण्डलेश्वरः सन्तोषी माता, गोवाप्रदेशस्य पद्मनाभपीठाधीश्वरः स्वामी ब्रह्मेशानन्द महाराज, महामण्डलेश्वरः स्वामी अखिलेश्वरानन्द महाराज इत्यादयः अनेके प्रतिष्ठिताः सन्तमहात्मानः धर्माचार्याश्च सहभागिनः अभवन्।

विश्वहिन्दूपरिषदः अन्ताराष्ट्रियाध्यक्षः आलोक कुमार, अन्ताराष्ट्रियसंरक्षकः केन्द्रीयप्रबन्धसमितेः वरिष्ठसदस्यः दिनेश चन्द्र, अन्ताराष्ट्रियमहामन्त्री संगठनम् मिलिंद परांडे, अन्ताराष्ट्रियमहामन्त्री बजरंग बागड़ा, राष्ट्रीयप्रवक्ता केन्द्रीयमन्त्री च अशोक तिवारी, क्षेत्रसंगठनमन्त्री मुकेश विनायक, प्रान्तसंगठनमन्त्री अजय कुमार इत्यादयः अनेके वरिष्ठपदाधिकारिणः उपवेशने उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani