राज्यपालस्य अभिभाषणेन पश्चिमबङ्ग-विधानसभायाः वित्तविवरण-सत्रस्य शुभारम्भः, सोमवासरे अर्थसङ्कल्पः प्रस्तुतः भविष्यति
कोलकातानगरम्, १८ जूनमास: (हि.स.)। पश्चिमबङ्ग-विधानसभायाः वित्तविवरण-सत्रस्य गुरुवासरे राज्यपालस्य आर.एन. रवि-महोदयस्य अभिभाषणेन शुभारम्भः अभवत्। राज्यपालः स्वाभिभाषणे उक्तवान् यत् वित्तविवरण-सत्रस्य प्रथमः चरणः २५ जूनपर्यन्तं प्रवर्तिष्यते, राज्यस्
विधानसभा


कोलकातानगरम्, १८ जूनमास: (हि.स.)। पश्चिमबङ्ग-विधानसभायाः वित्तविवरण-सत्रस्य गुरुवासरे राज्यपालस्य आर.एन. रवि-महोदयस्य अभिभाषणेन शुभारम्भः अभवत्। राज्यपालः स्वाभिभाषणे उक्तवान् यत् वित्तविवरण-सत्रस्य प्रथमः चरणः २५ जूनपर्यन्तं प्रवर्तिष्यते, राज्यस्य वित्तमन्त्री स्वपनदासगुप्तः च अग्रिमे सोमवासरे राज्यस्य अर्थसङ्कल्पं प्रस्तुतं करिष्यति। अस्मिन् वर्षे वित्तविवरण-सत्रस्य प्रत्यक्षप्रसारणमपि भविष्यति।

स्वाभिभाषणे राज्यपालः विधि-व्यवस्था, भ्रष्टाचारः, अवैधधनोपार्जनम्, महिलासुरक्षा, अवैध-प्रवेश, शिक्षा, स्वास्थ्यं, औद्योगिकविकासश्च इत्यादीन् अनेकान् विषयान् उल्लिखितवान्। तेन उक्तं यत् नूतनराज्यसर्वकारः नागरिकानां सुरक्षां सुनिश्चेतुं प्रतिबद्धः अस्ति तथा भ्रष्टाचारम् अवैधधनोपार्जनं च निरोद्धुं कठोराणि पदानि गृह्णाति।

राज्यपालः अवदत् यत् महिलानाम् उत्पीडनसम्बद्धेषु प्रकरणेषु सर्वकारेण 'शून्य-सहिष्णुता-नीतिः' अङ्गीकृता अस्ति। समाजविघातकतत्त्वानां तथा अवैधधनोपार्जनकर्तॄणां विरुद्धं कठोरकार्यवाही कर्तुं दृढसङ्कल्पोऽपि व्यक्तः। तेन उक्तं यत् गतवर्षेषु राज्ये भयस्य हिंसायाश्च वातावरणम् आसीत्, यस्य निराकरणाय नूतनसर्वकारः प्रयतमानः अस्ति तथा विधिशासनस्य पुनः स्थापना क्रियते।

अभिभाषणे राज्यपालेन सीमासुरक्षायाः अवैधप्रवेशस्य च विषयः अपि उत्थापितः। तेन उक्तं यत् नूतनसर्वकारेण मुक्तसीमासु कण्टकतार-स्थापनार्थं सीमा-सुरक्षाबलाय भूमिः प्रदत्ता। तस्य मते अवैधप्रवेश: राज्यस्य प्रमुखासु समस्यासु अन्यतमा आसीत्, अस्य कारणात् जनसङ्ख्यासंरचनायामपि परिवर्तनम् अभवत्। सर्वकारः अवैधप्रवेशकानां परिचयं निश्चित्य तेषां विरुद्धं कार्यवाहीं करोति तथा राजकीयभूमेः अतिक्रमण-निर्मूलनाय प्रयत्नाः निरन्तरं प्रचलन्ति।

राज्यपालः अवदत् यत् नूतनसर्वकारः बालूकाचौर्यं संस्थागतभ्रष्टाचारं च निरोद्धुमपि दृढतया कार्यं करोति। तेन स्पष्टीकृतं यत् कस्यापि प्रकारस्य 'भय-संस्कृतिः' अथवा भयप्रदर्शनाधारितराजनीतिः न सह्यते।

विकासपरियोजनानां विषये राज्यपालः अवदत् यत् पूर्ववर्तिसर्वकारस्य कार्यकाले अनेका: महत्त्वपूर्णाः परियोजनाः प्रलम्बिताः आसन्। तेन उक्तं यत् चिङ्गडीघाट-मेट्रो-परियोजना अष्टादशमासान् यावत् स्थगिता आसीत्, किन्तु नूतनसर्वकारेण अस्याः परियोजनायाः कार्ये तीव्रता समानीता। एतदतिरिक्तं षट्त्रिंशत् रेलपरियोजनानां कृते भूमिः प्रदत्ता अस्ति तथा रेल-मेट्रो-सम्बद्धाः सर्वाः प्रलम्बिताः परियोजनाः शीघ्रं सम्पन्नाः भवेरन् इति प्रयत्नः क्रियते।

औद्योगिकविकासस्य विषये राज्यपालः अवदत् यत् दीर्घकालम् उपेक्षिते राज्ये अधुना उद्योगानां विकासाय विशेषप्राथमिकता दीयते। नूतनानाम् औद्योगिकसंस्थानानाम् आकर्षणाय निवेशवृद्धये च सर्वकारः सक्रियतया कार्यं करोति।

शिक्षा-स्वास्थ्ययोः विषये राज्यपालः उक्तवान् यत् राज्ये राष्ट्रियशिक्षानीतिः प्रवर्तिता भविष्यति तथा विद्यालयेषु उन्नता मध्याह्नभोजनव्यवस्था सुनिश्चितीक्रियते। महिलासशक्तीकरणार्थमपि नूतनाः योजनाः प्रवर्तयिष्यन्ते।

तेन सूचितं यत् गर्भाशयग्रीवा-कर्कटरोगस्य उन्मूलनार्थं निःशुल्क-टीकाकरण-कार्यक्रमस्य आरम्भस्य निर्णयः कृतः। जनौषधियोजनायाः अन्तर्गतं राज्यवासिभ्यः पञ्चाशत्प्रतिशतात् अशीतिप्रतिशतपर्यन्तं न्यूनतादरेषु औषधानि प्रदास्यन्ते।

राज्यपालस्य अभिभाषणेन प्रारब्धे अस्मिन् बजट्-सत्रे सर्वकारस्य प्राथमिकताः तथा भाविनीतिदिशा स्पष्टतया प्रतिपादिताः। अधुना आगामि सोमवासरे राज्यस्य वित्तमन्त्री अर्थसङ्कल्पं प्रस्तुत्य सर्वकारस्य आर्थिकयोजनानां विकास-कार्यक्रमाणां च विस्तृतं विवरणं विधानसभायाः समक्षं स्थापयिष्यति।

Hindusthan Samachar / Divya Ranjan