अन्ताराष्ट्रिय-योग-दिवसे त्रिदिवसीय-महा-अभियानम्, २१ जूनमासे प्रधानमन्त्री मुख्यकार्यक्रमे सहभागं करिष्यति - मुख्यमन्त्री
कोलकातानगरम्, १८ जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरं दृष्ट्वा पश्चिमबङ्गराज्ये १९ तः २१ जूनपर्यन्तं त्रिदिवसीयविशेषकार्यक्रमाणां आयोजनं भविष्यति इति गुरुवासरे नवान्ने आयोजिते पत्रकारसम्मेलने घोषितम्। अस्मिन् अवसरे मुख्यमन्त्री ममता बनर
शुभेंदु अधिकारी


कोलकातानगरम्, १८ जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरं दृष्ट्वा पश्चिमबङ्गराज्ये १९ तः २१ जूनपर्यन्तं त्रिदिवसीयविशेषकार्यक्रमाणां आयोजनं भविष्यति इति गुरुवासरे नवान्ने आयोजिते पत्रकारसम्मेलने घोषितम्।

अस्मिन् अवसरे मुख्यमन्त्री ममता बनर्जी उक्तवती यत् मानसूनकाले प्रांगणक्षेत्रे पंकस्य सम्भावनां दृष्ट्वा मुख्ययोग-कार्यक्रमः रेड रोड इत्यत्र आयोज्यते। २१ जूनदिने प्रधानमन्त्री नरेन्द्रमोदी अपि अस्मिन् मुख्यकार्यक्रमे सहभागं करिष्यति।

मुख्यमन्त्री अवदत् यत् अस्मिन् वर्षे योगदिवसस्य आयोजनद्वारा नूतनं कीर्तिमानं स्थापयितुं प्रयत्नः क्रियते। तेन सूचितं यत् मुख्यकार्यक्रमाय अद्यावधि ३८ सहस्राधिकजनाः पञ्जीकरणं कृतवन्तः, तथा बहुसहस्रजनानां सहभागस्य अपेक्षा अस्ति।

कार्यक्रमानुसारं १९ जूनदिने प्रातः सप्तवादने ‘रन फॉर योगा’ इति मैराथन-कार्यक्रमः आयोजितः भविष्यति, यः कोलकाता-नगरनिगममुख्यालयात् राइटर्स-बिल्डिङ् पर्यन्तं गमिष्यति। अस्य उद्देश्यं जनानां योगविषये जागरणं तथा स्वस्थजीवनशैल्याः प्रोत्साहनम् अस्ति।

द्वितीयेदिने २० जूनदिने पश्चिमबङ्गदिवसः अपि आयोज्यते। तस्मिन्नेव दिने सायं गङ्गानद्यां विशेषकार्यक्रमः भविष्यति, यस्मिन् ड्रोन-माध्यमेन योगसम्बद्धानि आकर्षकदृश्यानि प्रदर्शितानि भविष्यन्ति।

मुख्यमन्त्री अवदत् यत् २१ जूनदिने अन्तरराष्ट्रीययोगदिवसस्य मुख्यसमारोहः भविष्यति। प्रतिभागिनः प्रातः ६:१५ वादनपर्यन्तं कार्यक्रमस्थले उपस्थिताः भवितव्याः, ततः आयुषमन्त्रालयेन निर्धारित-नियमानुसारं योगाभ्यासः आरभ्यते।

अस्मिन् अवसरे केन्द्रीय-आयुष-राज्यमन्त्री प्रतापरावजाधव: अपि उपस्थितः आसीत्। तेन उक्तं यत् यदा योगः दैनिकजीवनस्य अङ्गं भवति, तदा सः केवलं व्यक्तिं न, अपितु परिवारं समाजं राष्ट्रं च सशक्तं करोति।

Hindusthan Samachar / Divya Ranjan