पश्चिम बंगाले योग दिवसस्य सज्जाः सक्रियाः, विभिन्नजनपदेषु चलति योगाभ्यासः
कोलकाता, 18 जूनमासः (हि.स.)। आगामिनि २१ जूनदिने आचर्यमाणस्य अन्ताराष्ट्रिययोगदिवसस्य निमित्तं समग्रे पश्चिमबङ्गराज्ये गतिविधयः तीव्रतां गताः सन्ति। एतस्मिन् वर्षे मुख्यकार्यक्रमः कोलकातानगरस्य रेडरोडस्थले आयोज्यते, यस्मिन् प्रधानमन्त्री नरेन्द्रम
अंतर्राष्ट्रीय योग दिवस से पहले पश्चिम बंगाल में योगाभ्यास से संबंधित गतिविधियां शुरू हो गई हैं।


कोलकाता, 18 जूनमासः (हि.स.)।

आगामिनि २१ जूनदिने आचर्यमाणस्य अन्ताराष्ट्रिययोगदिवसस्य निमित्तं समग्रे पश्चिमबङ्गराज्ये गतिविधयः तीव्रतां गताः सन्ति। एतस्मिन् वर्षे मुख्यकार्यक्रमः कोलकातानगरस्य रेडरोडस्थले आयोज्यते, यस्मिन् प्रधानमन्त्री नरेन्द्रमोदी सहभागिता करिष्यति। कोलकातानगरं सहित्य समग्रे राज्ये अन्ताराष्ट्रिययोगदिवसस्य सज्जताः उत्साहपूर्वकं प्रचलन्ति।

राज्यस्य विभिन्नेषु शैक्षणिकसंस्थानेषु अन्येषु स्थानेषु च योगाभ्यासाः क्रियमाणाः सन्ति। अस्य वर्षस्य अन्ताराष्ट्रिययोगदिवसस्य विषयः अस्ति ‘‘स्वस्थवृद्धावस्थायै योगः’’। २१ जूनदिनस्य प्रतीक्षां विना एव राज्यस्य विभिन्नेषु जनपदेषु योगाभ्यासस्य क्रमः आरब्धः अस्ति।

उल्लेखनीयम् अस्ति यत् २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्रमोदिनः प्रारंभिकया संयुक्तराष्ट्रसंघमहासभया २१ जूनदिनः ‘‘अन्ताराष्ट्रिययोगदिवसः’’ इति रूपेण मान्यता प्रदत्ता। ततः प्रभृति प्रतिवर्षं देशस्य विभिन्नेषु भागेषु अस्य दिवसस्य आयोजनं क्रियमाणम् अस्ति।

गतवर्षे एषः कार्यक्रमः विशाखापट्टनमे अभवत्, यदा २०२४ तमे वर्षे श्रीनगरस्य डलसरोवरस्य तीरे तथा २०२३ तमे वर्षे संयुक्तराष्ट्रसंघस्य मुख्यालये योगदिवसः आचरितः आसीत्। २०२६ तमे वर्षे कोलकातानगराय मुख्यसमारोहस्य आतिथ्यं कर्तुं अवसरः प्राप्तः अस्ति।

------------------

Hindusthan Samachar / Dheeraj Maithani